SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ अष्टम श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघु- वृत्तिः । ॥१२७॥ कापिलीयमध्ययनम्। कपिलकेवलिना साधुधर्मकथनम्। BXXXXXXXXXXXXX एवमेतेऽपि धीरा ब्रतादिनोपायेन तरन्ति भवमिति । उक्तञ्च-"विषयगणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् । बध्नाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥” इति सूत्रार्थः ॥६॥ किं सर्वेऽपि साधवोऽतरं तरन्ति उत न ? इत्याह समणा मु एगे वदमाणा, पाणवहं मिया अयाणंता। मंदा निरयं गच्छंति, बाला पावियाहिं दिट्टीहिं ॥७॥ व्याख्या-'श्रमणाः' साधवः-मुनयः 'स्मः' इत्यात्मनिर्देशार्थत्वाद् वयमिति “एके' केचन तीर्थान्तरीयाः 'वदमानाः' स्वाभिप्रायमुदीरयन्तः 'प्राणवधं' प्राणघातं मृगा इव 'मृगाः' प्राग्वद्, 'अज्ञाः' अजानन्त इति 'के प्राणिनः ? के वा तेषां प्राणाः ? कथं वधः?' इत्यनवबुध्यमानाः, अनेन च प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीत्युक्तं भवति । अत | एव मन्दा इव 'मन्दाः' मिथ्यात्वमहारोगग्रस्ततया 'निरयं' नरकं गच्छन्ति' यान्ति बाला इव 'बालाः' विशिष्टविवेकविकलत्वात् , 'पापिकाभिः' पापहेतुभिः 'दृष्टिभिः' दर्शनाभिप्रायरूपामिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुद्भयो वैश्य, तपसे शूद्रम् ।" तथा च-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पक्केन, नासौ पापेन | लिप्यते ॥१॥” इत्यादिकामिर्दयादमबहिष्कृताभिः, तहिष्कृतानां च विविधवल्कलवेषादिधारिणामपि न केनचित् पापपरित्राणम् । तथा च वाचकः-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः । न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥१॥” इति सूत्रार्थः॥७॥ अत एवाह सूत्रकृत् नहु पाणवहं अणुजाणे, मुच्चेज कयाइ सबदुक्खाणं । एवमारिएहिं अक्खायं, जेहिं इमो साहुधम्मो पन्नत्तो॥८॥ व्याख्या-न हु' नैव प्राणवधं मृषावादाद्युपलक्षणं चैतत् , "अणुजाणे" त्ति अपेलृप्तस्य दर्शनाद् अनुजानन्नपि ॥१२७॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy