________________
उ० अ० २२
XXX
भोगामिसदोसविसन्ने, हिअणिस्सेयसबुद्धिवोचत्थे ।
बाले य मंदिए मूढे, बज्झति मच्छिया व खेलमि ॥ ५ ॥
व्याख्या - भोगा एव गृद्धिहेतुत्वाद् आमिषं भोगामिषं तदेव दोषः आत्मदूषणाद् भोगामिषदोषस्तस्मिन् विषण्णःविविधं सन्नः - निमग्नः, हिते निःश्रेयसे - मोक्षे बुद्धि: - तत्प्राप्युपायविषया मतिः विपर्यस्ता- विपर्ययवती यस्य स हितनिःश्रेयसबुद्धिविपर्यस्तः, 'बालश्च' अज्ञः "मंदिए” त्ति सूत्रत्वात् 'मन्दः' धर्मकार्यकरणं प्रति अनुद्यतः 'मूढः' मोहाकुलितमानसः 'बध्यते' श्लिष्यते अर्थाद् ज्ञानावरणादिकर्मणा मक्षिकेव 'खेले' श्लेष्मणि रजसेति गम्यते । इदमुक्तं भवति — यथाऽसौ तद्गन्धादिभिराकृष्यमाणा खेले मज्जति, मग्ना च रेण्वादिना बध्यते, एवं जन्तुरपि भोगामिषमग्नः कर्मणेति सूत्रार्थः ॥ ५ ॥ ननु यद्येवममी भोगाः कर्म्मबन्धकारणं किं नैतान् सर्वजन्तवस्त्यजन्ति ? इत्याहदुपरिच्चया इमे कामा, णो सुजहा अधीरपुरिसेहिं ।
अह संति सुबया साहू, जे तरंति अतरं वणिया व ॥ ६ ॥
व्याख्या—‘दुःपरित्यजाः' दुःपरिहार्याः 'इमे' प्रत्यक्षत उपलभ्यमानाः कामाः 'नो' नैव " सुजह" त्ति सूत्रत्वात् 'सुहानाः' सुत्यजा विषसम्पृक्तमधुरान्नवत् । कैः ? 'अधीरपुरुषैः' असात्त्विकनरैः । यच्चेह 'दुः परित्यजाः' इत्युक्त्वा पुनः 'न सुजहाः' इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकम् । अधीरग्रहणेन तु धीरैः सुत्यजा एव इत्युच्यते, अत एवाह – 'अथे' त्युपन्यासे, 'सन्ति' विद्यन्ते 'सुत्रताः' निष्कलङ्कव्रताः 'साधवः' मुनयः, ये किम् ? इत्याह — ये 'तरन्ति' परम्परया अतिक्रामन्ति 'अतरं' तरीतुमशक्यं भवमित्यर्थः, वणिज इव, वाशब्दस्येवार्थत्वात् ; यथा हि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति १ विषयगणं भवं वा ।
CXXCXXX
स्वयं बुद्धे कपिलकेव
लिना चौर
समूहस्य
सम्बोध
करणम् ।