________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ १२६ ॥
मन्येषु, अपिश्वाऽत्र लुप्तो द्रष्टव्यः, दोषाः - इहैव मनस्तापादयः प्रदोषाः - परत्र नरकगत्यादयस्तैः 'विमुच्यते' त्यज्यते भिक्षुरिति सूत्रार्थः ॥ २ ॥ पुनर्यदसौ कृतवांस्तदाह
तो नाणदंसणसमग्गो, हियनिस्सेसाय सङ्घजीवाणं ।
तेसिं विमोक्खणट्ठाए, भासती मुणिवरो विगयमोहो ॥ ३ ॥
व्याख्या - "तो" त्ति ' ततः' अनन्तरं भाषते मुनिवर इति सम्बन्धः । स च कीदृक् ? ज्ञानदर्शनाभ्यां प्रस्तावात् केवलाभ्यां समग्र :- समन्वितः, किमर्थं भाषते ? इत्याह — "हियनिस्से साय" त्ति सूत्रत्वात् हितः - पथ्यो निरुपमसुखहेतुत्वात् निःश्रेयसः - मोक्षः, हितश्चासौ निःश्रेयसश्च हितनिःश्रेयसः तस्मै - तदर्थम् केषाम् ? 'सर्वजीवानाम्' अशेषप्राणिनाम्, 'चस्य गम्यमानत्वात्, 'तेषाम्' पञ्चशतसंख्यानां चौराणां 'विमोक्षणार्थम्' अष्टविधकर्म्मविमोचनार्थं भाषते, वर्त्तमाननिर्देशः तत्कालविवक्षया, मुनिवरो विगतमोहः । ननु “ हियनिस्सेसाय सङ्घजीवाणं” तीत्युक्ते "तेसिं विमोक्खणट्ठाए" इत्यतिरिच्यते, न, तानेवोद्दिश्य भगवतः प्रवृत्तिरिति प्रधानत्वात् पुनस्तद्विमोक्षणार्थमित्यभिधानमदुष्टमिति सूत्रार्थः ॥ ३॥ यदसौ भाषते तदाह - सबं गंधं कलहं च, विप्पजहे तहाविहं भिक्खू । सधेसु कामजाए, पासमाणो न लिप्पती ताई ॥ ४ ॥ व्याख्या – 'सर्वम्' अशेषं 'ग्रन्थं' बाह्यं धनादि आन्तरं मिथ्यात्वादि, कलहहेतुत्वात् 'कलहः' क्रोधस्तं, चशब्दात् मानादींश्व, अभ्यन्तरग्रन्थ रूपत्वेऽपि चैषां पृथगुपादानं बहुदोषताख्यापनार्थम् । "विप्पजहे" त्ति विप्रजह्यात् ' वित्यजेत्, ' तथाविधं' कर्म्मबन्धहेतुं न तु धर्मोपकरणमपीत्यभिप्रायः, 'भिक्षुः' यतिः । ततश्च किं स्यात् ? इत्याह - सर्वेषु 'कामजातेषु' कामप्रकारेषु ''पासमाणो” त्ति 'पश्यन् ' प्रेक्षमाणोऽत्यन्तकटुकं तद्विषयं दोषमिति गम्यते, 'न लिप्यते' न सज्यते त्रायते - रक्षति आत्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं प्रन्थत्यागिनो गुणमभिधाय व्यतिरेके दोषमाह -
अष्टमं
कापिलीय
मध्ययनम् ।
स्वयंबुद्धेन
कपिलकेव
लिना चौर
समूहस्य सम्बोध
करणम् ।
॥ १२६ ॥