SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 3KX गुणौ । व्याख्या-'इहेति मनुष्यत्वे जैनशासने वा प्राप्ते इति शेषः, कामेभ्यः अनिवृत्तः-अनुपरतः कामानिवृत्तस्तस्य | कामाऽनिवृआत्मनोऽर्थः 'आत्मार्थः' अर्यमानतया वर्गादिः 'अपराध्यति' अनेकार्थत्वाद् धातूनां नश्यति, दुर्गतिगमनेनेति भावः। त्योर्दोषआह-विषयवाञ्छानिरोधिनि जिनागमे सति कथं कामानिवृत्तिसम्भवः ? उच्यते-'श्रुत्वा' उपलक्षणत्वात् प्रतिपद्य च all 'नैयायिक' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिकं मुक्तिपथं 'यत्' यस्मात् 'भूयः' पुनः परिभ्रश्यति, कामानिवृत्तित | इति शेषः । कोऽभिप्रायः?-यो जिनागमश्रवणात् कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मकत्वात् प्रतिपतति, ये तु श्रुत्वाऽपि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति ते कामानिवृत्ता एवेति भाव इति सूत्रार्थः॥२५।। यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह- इह कामनियहस्स, अत्तठे नावरज्झति । पूतिदेहनिरोहेणं, भवे देवे त्ति मे सुतं ॥२६॥ व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्य 'आत्मार्थः' स्वर्गादिः 'न अपराध्यति' न भ्रश्यति, किं पुनरेवम् ? यतः पूतिः-कुथितो देहः-अर्थात् औदारिकशरीरं तस्य निरोधः-अभावः पूतिदेहनिरोधस्तेन 'भवेत्' स्यात् प्राकृतत्वात् Xकामनिवृत्तः 'देवः' सौधर्मादिनिवासी सुरः, उपलक्षणत्वात् सिद्धो वा, 'इति' एतत् मया 'श्रुतम्' आकर्णितं परमगुरुभ्य इति गम्यते । अनेन स्वर्गाद्यवाप्तिरात्मार्थानपराधे निमित्तमुक्तमिति सूत्रार्थः ॥ २६ ॥ ततश्च यदसौ आप्नोति तदाहइडी जुती जसो वन्नो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजह ॥ २७॥ व्याख्या-'ऋद्धिः' कनकादिसमुदायः, 'द्युतिः' शरीरकान्तिः, 'यशः' पराक्रमकृता प्रसिद्धिः, 'वर्णः' गाम्भीर्या| दिगणैः श्लाघा गौरवत्वादि वा, 'आयुः जीवितम्, 'सुख' यथेप्सितविषयावाप्ती आहादः, न विद्यते उत्तरं-प्रधानम अस्मादित्यनुत्तरम्, इदं सर्वत्र योज्यते, 'भूयः पुनः उत्तराण्येव तानि अस्य सम्भवन्ति 'यत्र' येषु मनुष्येषु तत्र तेषु |सः 'उत्पद्यते' जायत इति सूत्रार्थः ॥ २७ ॥ एवं कामानिवृत्त्या यस्य आत्मार्थोऽपराध्यति स बाल इतरस्तु पण्डित इत्यादुक्तम् । सम्प्रति पुनरनयोरेव साक्षात् स्वरूपं फलं चोपदर्शयन्नुपदेशमाह XOXOXO-KO-XDXOXOXOXO
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy