________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा
ख्या लघुवृत्तिः । ॥ १२३ ॥
बालस्स पस्स बालत्तं, अहम्मं पडिवज्जिया । चिच्चा धम्मं अहम्मिट्ठे, णरए उववज्जइ ॥ २८ ॥ धीरस्स पस्स धीरतं, सवधम्माणुवत्तिणो । चिच्चा अहम्मं धम्मिट्टे, देवेसु उववज्जई ॥ २९ ॥ तुलियाण बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणी ॥ ३० ॥ त्ति बेमि ॥ व्याख्या—‘बालस्य' अज्ञस्य 'पश्य' अवधारय 'बालत्वम्' अज्ञत्वम् । किं तत् ? इत्याह-- ' अधर्म्म' धर्म्मविपक्षं विषयासक्तिरूपं 'प्रतिपद्य' अभ्युपगम्य ' त्यक्त्वा' हित्वा 'धर्म' विषयनिवृत्तिरूपं सदाचारं "अहम्मिट्ठे" त्ति प्राग्वत् 'नरके' सीमन्तकादौ उपलक्षणत्वादन्यत्र वा दुर्गतौ उत्पद्यते । तथा धीः - बुद्धिस्तया राजत इति धीरः - बुद्धिमान् परीषहाद्यक्षोभ्यो वा धीरस्तस्य 'पश्य' प्रेक्षस्व 'धीरत्वं' धीरभावम्, सर्वं धर्म- क्षान्त्यादिरूपम् अनुवर्त्तते - तदनुकूलाचारतया स्वीकुरुत इत्येवंशीलो यस्तस्य सर्व्वधर्मानुवर्त्तिनः, धीरत्वमाह – ‘त्यक्त्वा' हित्वा 'अधर्म्म' विषयाभिरतिरूपमसदाचारम्, “धम्मेढे" त्ति इष्टधर्म्मा देवेषु उपपद्यत इति । यतश्चैवमतो यद्विधेयं तदाह – 'तोलयित्वे 'ति प्राग्वत् 'बालभावं' बालत्वम् “अबालं” ति भावप्रधानत्वात् निर्देशस्य अबालत्वं 'चः समुच्चये, “एवेति प्राकृतत्वाद् अनुस्वारलोपे 'एवम्' अनन्तरोक्तप्रकारेण 'पण्डितः' बुद्धिमान् त्यक्त्वा 'बालभावं' बालत्वं “अबालं" ति अबालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ ७ ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां सुखबोधायां उत्तराध्ययनलघुटीकायामुरीयं सप्तममध्ययनं समाप्तम् ॥
सप्तमं औरश्रीयम
ध्ययनम् ।
बाल-पण्डितयोः स्वरूपं फलं च ।
॥ १२३ ॥