SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । सप्तमं औरभ्रीयमध्ययनम् । दार्टान्तिकयोजना। ॥१२२॥ व्याख्या-'यथेति दृष्टान्तोपन्यासे, 'कुशाग्रे' दर्भकोटौ 'उदकं' जलं 'समुद्रेण' समुद्रजलेन 'सम' तुल्यं 'मिनुयात् | परिच्छिन्द्यात्, एवं मानुष्यकाः कामा देवकामानाम् 'अन्तिके' समीपे । किमुक्तं भवति ?-यथा अज्ञः कश्चित् कुशाग्रे जलबिन्दुमालोक्य समुद्रवत् मन्यते एवं मूढाश्चक्रवर्त्यादिमनुष्यकामान् दिव्यभोगोपमान अध्यवस्यन्ति, तत्त्वतस्तु कुशाग्रजलबिन्दुसमुद्रवत् मनुष्यदेवकामानां महदन्तरमिति सूत्रार्थः ॥ २३ ॥ उक्तमेवार्थ निगमयन्नपदेशमाहकुसग्गमेत्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुराकाउं, जोगक्खेमं न संविदे ॥२४॥ ___ व्याख्या-'कुशाग्रमात्राः' दर्भप्रान्तगताम्बुवद् अल्पा 'इमे' प्रत्यक्षाः 'कामाः' मनुष्यसम्बन्धिनः, तेऽपि न पल्योपमादिपरिमितौ द्राधीयसि आयुषि किन्तु 'सन्निरुद्धे' सङ्क्षिप्ते आयुषि, ततः "कस्स हे" ति प्राकृतत्वात् 'कं हेतुं' किं कारणं पुरस्कृत्य' आश्रित्य, अलब्धस्य लाभो योगः, लब्धस्य पालनं क्षेमः, अनयोः समाहारे योगक्षेमम् , कोऽर्थः ?अप्राप्तविशिष्टधर्मप्राप्तिं प्राप्तस्य च पालनम् , 'न संवित्ते' न जानीते जन इति शेषः । तदसंवित्ती हि विषयाभिष्वङ्ग एव हेतुः । मनुष्यविषयाश्च धर्म प्राप्य दिव्यभोगापेक्षयैवंप्रायाः, ततस्तत्त्यागतो विषयाभिलाषिणाऽपि धर्म एव यतितव्यमिति सूत्रार्थः ॥ २४ ॥ इत्थं दृष्टान्तपञ्चकमुक्तम् । तत्र च प्रथममुरभ्रदृष्टान्तेन भोगानामायती अपायबहुलत्वमभिहितम् । आयतौ चापायबहुलमपि यन्न तुच्छं न तत् परिहत्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ततः तत्तुच्छत्वम्। तुच्छमपि च लाभच्छेदात्मकव्यवहारज्ञतयाऽऽयव्ययतोलनाकुशल एव हातुं शक्त इति वणिग्व्यवहारोदाहरणम् । आयव्ययतोलनाऽपि च | कथं कर्तव्येति समुद्रदृष्टान्तः । तत्र हि दिव्यकामानां समुद्रजलोपमत्वमुक्तम् , तथा च तदुपार्जनं महान् आयः अनुपार्जन त महान व्यय इति तत्त्वतो दर्शितमेव भवति । इह च योगक्षेमासंवेदने कामानिवृत्त एव भवतीति तस्य दोषमाहदृह कामाणियहस्स, अत्तढे अवरज्झइ । सोचा णेयाउयं मग्गं. जं भजो परिभम्म ॥२७॥ ॥१२२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy