SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ समुद्रदृष्टा जेसिं तु विउला सिक्खा, मूलियं ते अइच्छिया। सीलवंता सविसेसा, अदीणा जंति देवयं ॥२१॥ व्याख्या-येषां तु' येषां पुनः 'विपुला' निःशहितत्वादिदर्शनाचारादिविषयत्वेन विस्तीणों 'शिक्षा' ग्रहणाऽऽसेव|नात्मिका अस्तीति गम्यते, 'मौलिकं' मूलधनभूतं मानुषत्वं ते “अइच्छिय" त्ति 'अतिक्रम्य' उल्लञ्चय 'शीलवन्तः' सदाचारवन्तः अविरतसम्यग्दृष्ट्यपेक्षया, महाव्रताऽणुव्रतादिमन्तश्च विरतिमदपेक्षया, तथा सह विशेषेण-उत्तरोत्तरगुणप्रतिपत्तिलक्षणेन वर्त्तन्त इति सविशेषाः, अत एव 'अदीनाः' 'कथं वयममुत्र भविष्यामः ?' इति वैकृव्यरहिता यान्ति देवस्य भावो देवता सैव दैवतं तत्, साम्प्रतं विशिष्टसंहननाभावतो मुक्तिगतरत्र व्यवच्छिन्नत्वाद् देवत्वमेव लाभ उक्तः। यत उक्तम्-"मण परमोहि पुलाए, आहारग खवग उवसमे कप्पे । संजमतिय केवलि सिझणा य जंबुम्मि वोच्छिन्ना ॥१॥" इति सूत्रार्थः ॥ २१ ॥ प्रस्तुतमेवार्थ निगमयनुपदेशमाहएवमद्दीणवं भिक्खं, अगारिं च विजाणिया। कहं नु जिचमेलिक्खं, जिच्चमाणो ण संविदे ॥२२॥ व्याख्या-'एवम् अमुना प्रकारेण लाभान्वितम् 'अदैन्यवन्तं' दैन्यरहितं 'भिक्षु' यतिम् 'अगारिणं च गृहस्थं "विज्ञाय' विशेषेण-तथाविधशिक्षावशाद् देवमनुजगतिमामित्वलक्षणेन ज्ञात्वा, 'कथं' केन प्रकारेण, न कथञ्चिदित्यर्थः, 'नु' इति वितर्के, "जिच्चं" ति सूत्रत्वात् 'जेयं जेतव्यम् इन्द्रियादिभिः, “एलिक्खं" ति 'ईदृक्षं देवत्वमनुजत्वलक्षणं 'जीयमानः' हार्यमाणः "न संविदे" ति प्राकृतत्वात् 'न संवित्ते' न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयेत तथा यतेत इत्यभिप्राय इति सूत्रार्थः ॥ २२ ॥ समुद्रदृष्टान्तमाहजहा कुसग्गे उदगं, समुद्देण समं मिणे। एवं माणुस्सगा कामा, देवकामाण अंतिए ॥ २३ ॥ , “मनः परमावधिः पुलाकः, आहारकः क्षपकोपशमः कल्पः । संगमत्रिकं केवली सेधना च जम्बो ब्युच्छिन्नाः ॥१॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy