SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सप्तमं औरभ्रीयम Toll ध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । घर्मविषया उपमा । ॥१२१॥ *मुक्तम् , अन्यथा हि केचिद् एकभवेनैव तत उद्धृत्य मुक्तिमपि अवानुक्न्स्येवेति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्यपि व्याख्याङ्गमिति पश्चादुक्तेऽपि मूलहारिणि प्रथममुपनयमुपदर्य मूलप्रवेशिन्यभिधातुमाहएवं जिअं सपेहाए, तुलिया बालं च पंडियं । मूलियं ते पवेसंति, माणुसं जोणिमिति जे ॥१९॥ ___ व्याख्या-'एवम्' उक्तनीत्या 'जितं' देवत्वमनुजत्वे हारितं बालमिति प्रक्रमः, “सपेहाए" त्ति 'सम्प्रेक्ष्य' सम्यगालोच्य तथा 'तोलयित्वा' गुणदोषवत्तया परिभाव्य बालं पण्डितं च, चस्य मिन्नक्रमत्वात् 'मौलिकं' मूलधनं ते प्रवेशयन्ति, मूलप्रवेशकवणिक्सदृशाः त इत्यभिप्रायः। ये मानुषी योनि 'आयान्ति' आगच्छन्ति बालतापरिहारेण तदुचितपण्डितत्वमासेवमाना इति सूत्रार्थः॥ १९ ॥ यथा मानुषीं योनिमायान्ति तथाऽऽहवेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया। उति माणुसं जोणिं, कम्मसचा हु पाणिणो॥२०॥ ___व्याख्या-विमात्रामिः' विविधपरिमाणामिः 'शिक्षामिः' प्रकृतिभद्रकत्वाद्यभ्यासरूपाभिः, उक्तश्च-"चउहिं ठाणेहिं | जीवा मणुयाउयं बंधति, तंजहा-पगइभद्दयाए पगइविणीययाए साणुकोसयाए अमच्छरिययाए" त्ति । ये 'नराः' पुरुषाः गृहिणश्च ते सुव्रताश्व-धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतं च-सदाचारानुल्लानादि । लौकिका अप्याहुः"विपद्युच्चैः स्थेयं पदमनुविधेयं हि महता, प्रिया न्याय्या बृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्योः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्ट, विषममसिधाराव्रतमिदम् ॥ १॥" आगमविहितव्रतधारणं त्वमीषामसम्भवि, देवगतिहेतुतयैव तदभिधानात् । यत्तदोर्नित्याभिसम्बन्धात् ते किम् ? इत्याह-उपयान्ति मानुषी योनिम्, किमित्येवम् ? अत आह-"कम्मसञ्चा हु पाणिणो" त्ति 'हुः' यस्मात् समानि-अवन्ध्यफलानि कर्माणि-ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः प्राणिन इति सूत्रार्थः॥२०॥ सम्प्रति लब्धलाभोपनयमाह १ "चतुर्भिः स्थानर्जीवा मनुजायुर्वनन्ति, तद्यथा-प्रकृतिभद्रतथा प्रकृतिविनीततया सानुक्रोशतया अमत्सरितयेति"। ॥१२॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy