________________
xoxoxoxoxoxoxoxoxoxoxoxox
“दुहि" त्ति वध्यमण्डनमिवाऽस्यौदनदानादीनि तत्त्वतो दुःखमेव तदस्यास्तीति दुःखी । “अह पत्तम्मि आएसे " 'अथ ' अनन्तरं 'प्राप्ते' आगते आदेशे 'शिरः' मस्तकं तत् 'छित्त्वा' द्विधाविधाय भुज्यते, तेनैव स्वामिना प्राहुणकसहितेनेति शेषः । सम्प्रति सम्प्रदायशेषमनुस्नियते - ततो सो वच्छगो तं नंदियं पाहुणएसु आगएसु वहिज्जमाणं दहुं तिसिओ वि माऊए थणं नाभिलसइ भएण । ताए भन्नइ — किं पुत्त ! भयमीओ सि ? नेहेण पण्डुयं पि मं न पियसि । तेण भन्नइ— अम्म ! कओ मे थणाभिलासो ? नणु सो वराओ नंदियओ अज्ज केहिं पि पाहुणगेहिं आगएहिं ममं अग्गओ विनिग्गयजीहो विलोलनयणो विस्सरं रसंतो अत्ताणो असरणो मारिओ, तब्भया कओ मे पाउमिच्छा ? । तओ ताए भन्नइ - पुत्त ! नणु तया चेव ते कहियं, जहा - "आउरचिन्नाई एयाई ।” एस तेसिं विवागो अणुप्पत्तो । एस दितो इति सूत्रार्थः ॥ ३ ॥ इत्थं दृष्टान्तमभिधाय तमेवानुवदन् दान्तिकमाह
जहा खलु से उरब्भे, आएसाए समीहिए। एवं बाले अहम्मिट्ठे, ईहई णरयाउयं ॥ ४ ॥ व्याख्या – 'यथा' येन प्रकारेण 'खलु' निश्वये 'सः' इति प्रागुक्तरूप उरभ्रः 'आदेशाय' आदेशार्थ 'समीहितः' कल्पितः सन् यथाऽयमस्मै भविष्यत्यादेशं परिकाङ्क्षतीत्यनुवर्त्तते । 'एवम्' अमुनैव न्यायेन 'बाल:' अज्ञः 'अधर्मिष्ठः' अतिशयेनाधर्मः 'ईहते' वाञ्छति तदनुकूलाऽऽचारतया 'नरकायुष्कं' नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थं प्रपञ्चयन्नाह - हिंसे बाले मुसावाई, अद्वाणम्मि बिलोवए । अन्नऽदत्तहरे तेणे, माई कन्नुहरे सढे ॥ ५ ॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवृढे परंदमे ॥ ६ ॥ अयकक्कर भोई य, तुंदिल्ले चियलोहिए । आउयं नरए कंखे, जहाऽऽएस व एलए ॥ ७ ॥
दाष्टन्तिकयोजना |