________________
सप्तम
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच-
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
KON
॥११७॥
व्याख्या-हिंस्रः' स्वभावत एव प्राणिव्यपरोपणकृत् , 'बाल' अज्ञः, 'मृषावादी' अलीकभाषकः, 'अध्वनि' मार्गे 'विलोपकः' मोषकः-पथि गच्छतो जनान् सर्वस्वहरणतो लुण्ठति, अन्यैरदत्तं हरति 'अन्यादत्तहरः' ग्रामनगरादिषु चौर्य
औरभ्रीयमकृत् , 'स्तेनः' चौर्येणैवोपकल्पितवृत्तिः, 'मायी' वञ्चनैकचित्तः, 'कन्नुहरः' कस्यार्थं नु इति वितर्के हरिष्यामीत्यध्यवसायी, सध्ययनम् । 'शठः' वक्राचारः ॥ ५ ॥ 'स्त्रीविषयगृद्धः' स्त्रीषु विषयेषु च अभिकाङ्क्षावान् , 'च' समुच्चये, महान्-अपरिमितः
दार्शन्तिकआरम्भः-अनेकजन्तूपघातकृत् व्यापारः परिग्रहश्च-धान्यादिसञ्चयो यस्य स तथोक्तः, 'भुञ्जानः' अभ्यवहरन् 'सुरां'
योजना। मदिराम् , 'मांसं' पिशितम्, 'परिवृढः' उपचितमांसशोणिततया तत्तक्रियासमर्थः, अत एव 'परंदमः' अन्येषां दमयिता ॥६॥ किञ्च-अजस्य-छागस्य कर्कर-यत् चनकवद् भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपकं मांसं तद्भोजी, अत एव | 'तुन्दिलः' जातबृहज्जठरः 'चितलोहितः' उपचितशोणितः, शेषधातूपलक्षणमेतत् , 'आयुः' जीवितं 'नरके' सीमन्तकादौ काङ्क्षति तद्योग्यकर्माऽऽरम्भितया। कमिव क इव ? इत्याह-"जहाऽऽएसं व एलए" त्ति आदेशमिव यथा एडकः-उक्तरूपः । इह च 'हिंसे'त्यादिना सार्द्धश्लोकेनाऽऽरम्भ उक्तः, 'भुञ्जमाणे'त्यादिना चार्द्धद्वयेन गृद्धिः, 'आयुरि'त्यादिना चार्द्धन दुर्गतिगमनं प्रत्यपायरूपमिति सूत्रत्रयार्थः ॥ ७ ॥ इदानीं साक्षादैहिकापायप्रदर्शनायाऽऽह
आसणं सयणं जाणं, वित्तं कामाणि भुंजिया। दुस्साहडं धणं हेच्चा, बहुं संचिणिया रयं ॥८॥ तओ कम्मगुरू जंतू, पञ्चुप्पन्नपरायणे । अए व आगयाएसे, मरणंतम्मि सोयइ॥९॥
॥११७॥ व्याख्या-आसनं शयनं यानं भुक्त्वा इति सम्बन्धनीयम् । 'वित्तं' द्रव्यं 'कामान्' शब्दादीन 'भुक्त्वा' उपभुज्य । दुःखेन संह्रियते-मील्यते स्म दुःसंहृतं 'धनं' द्रव्यम् , उक्तञ्च-"अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ॥१॥" हित्वा' द्यूताद्यसब्ययेन त्यक्त्वा, यदुक्तम्-“द्यूतेन मद्येन पणाङ्गनाभिस्तोयेन भूपेन