________________
श्रीउत्तराध्ययनसूत्रे
श्रीनैमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १०७ ॥
अगारिसामाइयंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥ व्याख्या - अगारिणः- गृहिणः सामायिकं सम्यक्त्व - श्रुत- देशविरतिरूपं तस्याङ्गानि - निःशङ्कता- कालाध्ययना - ऽणुव्रतादिरूपाणि अगारिसामायिकाङ्गानि “सड्डि” त्ति सूत्रत्वात् श्रद्धा - रुचिरस्याऽस्तीति श्रद्धावान् कायेनेत्युपलक्षणत्वात् मनसा वाचा च 'स्पृशति' सेवते । 'पौषधम्' आहारपौषधादि “ दुहओ पक्खं" ति प्राकृतत्वाद् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपौर्णमास्यादिषु तिथिषु “ एगराई” ति अपेर्गम्यमानत्वाद् एकरात्रिमपि, उपलक्षणत्वाच्च एकदिनमपि, "न हावए" ति न हापयति । रात्रिग्रहणं च दिवा व्याकुलतया कर्त्तुमशक्नुवन् रात्रावपि पौषधं कुर्यात् । इह च देशविरतिसामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमदुष्टमेवेति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्त्तुमाहएवं सिक्खासमावन्ने, गिहवासे वि सुबए । मुच्चइ छविपबाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ व्याख्या— 'एवम्' अमुनोक्तेन न्यायेन शिक्षया-व्रताssसेवनात्मिकया समापन्नः शिक्षासमापन्नः गृहवासेऽपि आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनत्रतो मुच्यते । कुतः ? छविश्व-त्वक् पर्वाणि च - जानुकूर्परादीनि छविपर्व तद्योगाद् औदारिकशरीरमपि छविपर्व ततः । तदनन्तरं च 'गच्छेत्' यायाद् यक्षाः - देवाः, समानो लोकोऽस्येति सलोकस्तद्भावः सलोकता, यक्षैः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवति इत्यर्थाद् देवगतिमिति । अनेन च पण्डित - मरणावसरे प्रसङ्गतो बालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह -
अह जे संवुडे भिक्खू, दोण्हमन्नयरे सिया । सङ्घदुक्खप्पहीणे वा, देवे वा वि महिड्डिए ।। २५ ॥ व्याख्या – 'अथे 'ति उपप्रदर्शने, 'यः' इत्यनिर्दिष्टनिर्देशे, 'संवृतः' इति पिहितसमस्ताऽऽश्रवद्वार: 'भिक्षु' रिति भावभिक्षुः स च द्वयोः 'अन्यतरः ' एकतरः स्यात् । तदाऽऽह — सर्वाणि - अशेषाणि यानि दुःखानि - क्षुत्पिपासेष्टवियोगाऽनिष्ट
-0-0-8X
पश्चमं अकाममरणीयाख्य
मध्ययनम् ।
सकाममर
णस्वरूपम् ।
॥ १०७ ॥