________________
स्वरूपम् ।
इत्याह -नैव त्रायन्ते भवात् दुष्कृतकर्मणो वेति गम्यते । कीदृशम ? 'दुःशीलं' दुराचार “परियागयं" ति 'पर्यायगत' प्रत्र-16 ज्यापर्यायप्राप्तम् , आर्षत्वाच्च यकारस्यैकस्य लोपः। न हि कषायकलुषचेतसो बहिर्बकवृत्तिरतिकष्टहेतुरपि नरकादिकुगतिनिवारणायाऽलम्। ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥ आह-कथं गृहाद्यभावेऽप्यमीषां दुर्गतिः ? इत्युच्यतेपिंडोलए व दुस्सीलो, णरगाओ ण मुच्चइ । भिक्खाए वा गिहत्थे वा, सुवए कमई दिवं ॥२२॥
व्याख्या-बाशब्दोऽपिशब्दार्थः, ततश्च 'पिण्डावलगकोऽपि' स्वकीयाहाराभावतो भैक्ष्यसेव्यपि, आस्तां गृहादिमान, दुःशीलः 'नरकात्' स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । अत्र चोदाहरणं तथाविधद्रमकः । तत्र च सम्प्रदायः
रायगिहे नयरे एगो पिंडोलओ उजाणियाए विणिग्गए जणे भिक्खं हिंडइ । न य तस्स किंचि केणइ दिन्नं । ततो |पउट्ठचित्तो सो तेसिं वेभारपञ्चयकडगसन्निविट्ठाणं पवओवरिं चडिऊण महइमहालियं सिलं चालेइ । 'एएसिं उवरि पाडेमि' त्ति रोइज्झाई विच्छुट्टिऊण तओ सिलाओ निवडिओ सिलातले संचुन्नियसवकाओ य मरिऊण अप्पइट्ठाणे नरए समुप्पन्नो। तर्हि किमत्र तत्त्वतः सुगतिहेतुः ? इत्याह-"भिक्खाए व" त्ति मिक्षामत्ति-भक्षयति भिक्षादः, वा विकल्पे, अनेन | यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावाऽनुगततया च व्रतं-शीलं व्रतपालनात्मकमlal स्येति सुव्रतः 'कामति' गच्छति 'दिवं' देवलोकम् । मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं कामतीत्यभिधानं जघन्यX तोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् । उक्तं हि-"अविराहियसामण्ण-स्स साहुणो सावगस्स य जहण्णो । उववाओ
सोहम्मे, भणिओ तेलुक्कदंसीहिं ॥१॥" अनेन व्रतपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ।। २२ ॥ __ यद्तयोगाद् गृहस्थोऽपि दिवं क्रामति तद्वक्तुमाह
१ "अविराधितश्रामण्यस्य, साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे, भणितस्बैलोक्यदर्शिमिः ॥१॥"