________________
सकाममरणस्वरूपम्।
संयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनः-रहितः सर्वदुःखप्रहीणः स्यादिति सम्बन्धः, स च सिद्ध एव । ततः स वा स्याद् देवो वा, 'अपिः' सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीदृक् ?महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्र चासौ देवो भवति तत्र कीदृशा आवासाः ? कीदृशाश्च देवाः ? इत्याह
उत्तराई विमोहाइं, जुइमंताणुपुषसो। समाइन्नाइँ जक्खेहिं, आवासाइं जसंसिणो ॥ २६ ॥ दीहाउया इडिमंता, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥ व्याख्या-'उत्तराः' उपरिवर्तिनोऽनुत्तरविमानाख्याः, 'विमोहा इव 'विमोहाः' अल्पवेदादिमोहनीयोदयतया, 'द्युतिमन्तः' दीप्तिमन्तः, "अणुपुत्वसो" त्ति अनुपूर्वतः क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु ह्यनुत्तरविमानावसानेषु पूर्वपूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि । 'समाकीर्णाः' व्याप्ताः ‘यक्षैः' देवैः आवासाः, प्राकृतत्वात् नपुंसकलिङ्गता । देवास्तु तत्र 'यशस्विनः' श्लाघान्विताः, 'दीर्घायुषः' चिरजीविनः, 'ऋद्धिमन्तः' सम्पदुपेताः, 'समृद्धाः' अतिदीप्ताः, 'कामरूपिणः' अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् । 'अधुनोपपन्नसङ्काशाः' प्रथमोत्पन्नदेवतुल्याः, अनुत्तरेषु हि वर्णद्युत्यादि आयुस्तुल्यमेव भवति । 'भूयोऽर्चिमालिप्रभाः' प्रभूताऽऽदित्यदीप्तयो न खेकस्यैवादित्यस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २६-२७ ॥ उपसंहर्त्तमाहताणि ठाणाणि गच्छंति, सिक्खित्ता संजमंतवं । भिक्खाए वा गिहत्थेवा, जे संतिपरिनिबुडा॥२८॥ व्याख्या-'तानि' अभिहितस्वरूपाणि 'स्थानानि' आवासान् 'गच्छन्ति' यान्ति 'शिक्षित्वा' अभ्यस्य 'संयम' सप्त
१ अथवा मोहो द्विधा-द्रव्यतोऽन्धकारो भावतश्च मिथ्यादर्शनादिः, स द्विविधोऽपि सततरत्रोद्योतिस्वेन सम्यग्दर्शनस्यैव च तत्र | सम्भवेन विगतो येषु ते विमोहाः।