SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ सकाममरणस्वरूपम्। अनाघातम् । केषां पुनरिदम् ? उच्यते-'संयताना' सम्यक्पापोपरतानां चारित्रिणामित्यर्थः,“ बुसीमउ" त्ति आर्षत्वाद् 'वश्यवतां' वश्यानि-आयत्तानि प्रक्रमाद् इन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तः तेषाम्, एतच्चार्थात् पण्डितमरणमेव । ततोऽयमर्थः-यथेतत् संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनाम् । उक्तञ्च-काले सुपत्तदाणं, सम्मत्तविसुद्धी बोहिलाभं च । अंते समाहिमरणं, अभवजीवा न पावंति ॥ १ ॥ विशिष्टयोग्यतावतामेव तत्प्राप्तिरिति सूत्रार्थः ॥ १८ ॥ तथा चाहन इमंसवेसुभिक्खूसु,ण इमं सवेसुगारिसु।नाणासीला यगारस्था, विसमसीला य भिक्खुणो॥ __ व्याख्या -'न' नैव 'इदं' पण्डितमरणं सर्वेषु भिक्षुषु' परदत्तोपजीविषु व्रतिष्वित्यर्थः, नेदं सर्वेषु 'अगारिषु' | गृहिषु, सर्बचारित्रिणामेव तत्सम्भवात् , तथात्वे च तेषामपि तत्त्वतो यतित्वात् । यथा चैतदेवं तथोपपत्तित आह'नानाशीलाः' अनेकविधव्रता अगारस्थाः, तेषां हि देशकरूपं शीलम्, देशरूपस्य तस्यानेकधाऽभिधानात् । 'विषमशीलाच' विसदृशशीलाश्च भिक्षवः, नहि सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते जिनमतप्रतिपन्ना अपि, तीर्थान्त|रीयास्तु दूरोत्सारिता एव । तेषु हि गृहिणस्तावद् अत्यन्तनानाशीला एव, यतः केचित् 'गृहाश्रमप्रतिपालनमेव महाव्रतमिति प्रतिपन्नाः, "गृहाश्रमपरो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीवाः पाखण्डमाश्रिताः॥१॥” इतिवचनात् । अन्ये तु 'सप्त शिक्षापदशतानि गृहिणां व्रतम्' इत्याद्यनेकधैव ब्रुवते । भिक्षवोऽप्यत्यन्तविषमशीला एव, यतस्तेषु केषाश्चित् पश्चयमनियमात्मकं ब्रतमिति दर्शनम् , अपरेषां कन्दमूलफलाशितैव इति विसदृशशीलता । न च तेषु कचिदविकलचारित्रसम्भव इति सर्वत्र पण्डितमरणाभाव इति सूत्रार्थः ॥ १९ ॥ विषमशीलतामेव भिक्षणां समर्थयितुमाह "काले सुपात्रदानं, सम्यक्त्वविशुद्धिबोंधिलाभश्च । अन्ते समाधिमरण, अभव्यजीवा न प्रामुवन्ति ॥१॥" XXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy