________________
अकाममरणस्वरूपम्।
यमाशयः-यदि गर्भजत्वं भवेद् भवेदपि तदवस्थायां छेदभेदादिनारकदुःखान्तरम, औपपातिकत्वे तु अन्तर्मुहानन्तरमेव तथाविधवेदनोदय इति कुतस्तदनन्तरसम्भवः?। तथा चाऽऽह–“आहाकम्मेहिं" ति 'यथाकर्मभिः' गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैः कर्मभिः गच्छन्' यान् तदनुरूपमेव स्थानं, 'सः' इति बालः 'पश्चात्' इति आयुषि हीयमाने 'परितप्यते' यथा 'धिङ् मामसदनुष्ठायिनम् , किमिदानीं मन्दभाग्यः करोमि ?' इत्यादि शोचत इति सूत्रार्थः॥१३॥ अमुमेवार्थ दृष्टान्तद्वारेण द्रढयन्नाह__ जहा सागडिओ जाणं, समं हेचा महापहं । विसमं मग्गमोइन्नो, अक्खे भग्गम्मि सोयइ॥१४॥
व्याख्या-यथा 'शाकटिकः' गश्रीवाहकः "जाणं" ति 'जानन्' अवबुध्यमानः 'समम्' उपलादिरहितं 'हित्वा' त्यक्त्वा 'महापथं विषममार्गम् 'अवतीर्णः' गन्तुं प्रवृत्तः 'अक्षे' धुरि भने' खण्डिते शोचति 'धिङ् मे परिज्ञानं यज्जानन्नपि इत्थमपायमवाप्तवान्' इति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह। एवं धम्म विउक्कम्म, अहम्मं पडिवजिया। बाले मनमुहं पत्ते, अक्खे भग्गे व सोयह ॥१५॥
व्याख्या-एवम्' इति शाकटिक इव 'धर्म' सदाचारात्मकं 'व्युत्क्रम्य' विशेषेणोल्लक्ष्य 'अधर्म' धर्मप्रतिपक्षं | हिंसादिकं 'प्रतिपद्य अभ्युपगम्य 'बालः' अज्ञः 'मृत्युमुखं' मरणगोचरं 'प्राप्तः' गतः अक्षे भने इव शोचति । किमुक्तं भवति?-यथा अक्षभङ्गे शाकटिकः शोचति तथाऽयमपि मरणात्मकं फलमनुभवन् आत्मानमनुशोचति, हा! किमेतन्मयाऽनुष्ठितम् ? इति सूत्रार्थः ॥ १५॥ शोचनानन्तरच किमसौ करोति ? इत्याह
तओ से मरणंतम्मि, बाले संतस्सई भया । अकाममरणं मरइ, धुत्ते वा कलिणा जिए॥१६॥ व्याख्या-ततः' इत्यातकोत्पत्तौ यच्छोचनमुक्तं तदनन्तरं "से" त्ति स मरणमेवान्तो मरणान्तस्तस्मिन् उपस्थिते