________________
अकाममरणस्वरूपम्।
एतदिति मन्यते। उपलक्षणत्वाद्भाषते च-'न मांसभक्षणे दोषो, न मद्ये न च मैथुने ।' इत्यादि । तदनेन मनसा वचसा कायेन वा सत्यत्वमस्योक्तमिति सूत्रार्थः॥ ९ ॥ पुनस्तद्वक्तव्यतामेवाह
कायसा वयसा मत्ते, वित्त गिद्धे य इत्थिसु। दहओ मलं संचिणड, सिसुणागो व मट्टियं ॥१०॥
व्याख्या-"कायस" त्ति सूत्रत्वात् 'कायेन' शरीरेण 'वचसा' वाचा उपलक्षणत्वात् मनसा च 'मत्तः' दृप्तः । तत्र कायेन मत्तः मदान्धगजवत्, यतस्ततःप्रवृत्तिमान् यद्वा 'अहो! अहं बलवान् रूपवांश्च' इति चिन्तयन् । वचसा स्वगुणान् ख्यापयन् 'अहो! अहं सुस्वरः' इत्यादि वा चिन्तयन् । मनसा च मदाध्मातचेताः 'अहोऽहमवधारणाशक्तिमान्' इति वा मन्वानः। वित्ते' द्रविणे 'गृद्धः' गृद्धिमान् । चशब्दः भिन्नक्रमः, ततः स्त्रीषु च गृद्धः। तत्र 'वित्त गृद्धः' इति अदत्तादानपरिग्रहोपलक्षणम् , तद्भावभावित्वात् तयोः। 'स्त्रीषु गृद्धः' इत्यनेन मैथुनाऽऽसेवित्वमुक्तम् , स हि 'त्रियः संसारसर्वस्वभूताः' इति मन्यते । तथा च तद्वचः-'सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचनाः॥१॥ तदभिरतिमांश्च मैथुनासेवी एव भवति । स एवंविधः किम् ? इत्याह-"दुहओ" त्ति द्विधा-द्वाभ्यां रागद्वेषात्मकाभ्यां बहिरन्तःप्रवृत्त्यात्मकाभ्यां वा प्रकाराभ्यां 'मलम्' अष्टप्रकारं कर्म 'सञ्चिनोति' बध्नाति । क इव किम् ? | इत्याह-'शिशुनागः' गण्डूपदः-अलस इत्यर्थः, स इव मृत्तिकाम् । स हि स्निग्धतनुतया बही रेणुभिरेव गुण्ड्यते, तामेव चानीते इति बहिरन्तश्च द्विधाऽपि मलमुपचिनोति तथाऽयमपि । एतद्दृष्टान्ताभिधाने त्वयमभिप्रायः-यथाऽसौ बहिरन्तश्च उपचितमलः खरतरदिवाकरकरनिकरसंस्पर्शतः शुष्यन्निहैव क्लिश्यति विनाशं चाऽऽप्नोति तथाऽयमप्युचितमल आशुकारिकर्मवशत इहैव जन्मनि क्लिश्यति विनश्यति चेति सूत्रार्थः ॥ १०॥ अमुमेवार्थ व्यक्तीकर्तुमाहतओ पुट्ठो आयंकेणं, गिलाणो परितप्पइ । पभीओ परलोयस्स, कम्माणुप्पेही अप्पणो॥११॥
KeXXXXXXXXXXXXX