________________
उ० अ० १८
जणेण सद्धिं होक्खामि, इति बाले पग भइ । कामभोगाणुरागेणं, केसं संपडिवज्जइ ॥ ७ ॥ व्याख्या- 'जनेन' लोकेन 'सार्द्ध' सह भविष्यामि । किमुक्तं भवति ? - बहुर्जनो भोगाऽऽसङ्गी तदहमपि तद्गतिं | गमिष्यामि, न हि इयान् जनोऽज्ञ इति । 'बाल:' अज्ञः 'प्रगल्भते' धार्क्ष्यमवलम्बते, अलीकवाचालतया च स्वयं नष्टः परानपि | नाशयति, न विवेचयति — यथा किमुन्मार्गप्रस्थितेनाविवेकिना जनेन बहुनाऽपि प्रमाणीकृतेन विवेकिनः ?, स्वकृतकर्मफलभुजो हि जन्तवः । स चैवं कामभोगानुरागेण 'क्लेशम्' इह परत्र च विविधबाधात्मकं 'सम्प्रतिपद्यते ' प्राप्नोतीति । उक्त - "वंरि विसु भुंजिउ मं विसय, एक्कसि विसिण मरंति । नर विसयाऽऽमिसमोहिया, बहुसो नरइ पडंति ॥ १ ॥” | इति सूत्रार्थः ॥ ७ ॥ यथा च कामभोगानुरागेण क्लेशं सम्प्रतिपद्यते तथा वक्तुमाह
ततो से दंडं समारभइ, तसेसु धावरेसु य । अट्ठाए य अणट्ठाए, भूयग्गामं विहिंसह ॥ ८ ॥
व्याख्या – 'ततः' कामानुरागात् 'सः' धावाम् 'दण्डं' मनोदण्डादि 'समारभते' प्रवर्त्तयति 'त्रसेषु' द्वीन्द्रियादिषु 'स्थावरेषु च पृथिव्यादिषु । अर्थ :- प्रयोजनं वित्तावात्यादिः तदर्थम् - अर्थाय चस्य व्यवहितसम्बन्धाद् अनर्थाय च - यदात्मनः सुहृदादेर्वा नोपयुज्यते । ननु किमित्थमपि कश्चिद्दण्डं समारभते ? आरभत एव तथाविधपशुपालवत् ।
तत्र च सम्प्रदायः-
यथैकः पशुपालः प्रतिदिनं मध्याहगते रखौ अजासु महान्यग्रोधतरुसमाश्रितासु तत्थुत्ताणओ निवन्नो धणुहियाबलेण अजोद्गीर्णगोलास्थिभिस्तस्य पत्राणि छिद्रीकुर्वंस्तिष्ठति । एवं तेन स बटपादपः प्रायः सछिद्रपत्रीकृतः । अन्नया तत्थेगो
१ "बरं विषं भुक्तं मा विषया. एकशो विषेण म्रियन्ते । नरा विषयाऽऽभिषमोहिता बहुशो नरके पतन्ति ॥ १ ॥”
FOXOX
अकाममरणस्वरूपम् ।