SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ XOXOXOXOXOXOXOXoxoxoXAM व्याख्या-बाला इव बालाः सदसद्विवेकविकलतया तेषाम् “तु" त्ति तुशब्दस्यैवकारार्थत्वाद् अकाममेव मरणम् | अकाममर'असकत' वारंवारं भवेत् , ते हि विषयाभिष्वङ्गतो मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्ति । 'पण्डि- णस्वरूपम्। ताना' चारित्रवतां सह कामेन-अभिलाषेण वर्तत इति 'सकामं सकाममिव सकामं, मरणं प्रति असनस्तत्वात् तदसत्रस्ततयैवोत्सवभूतत्वात् तादृशां मरणस्य । तथा च वाचकः-"सश्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् । उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां सकामत्वम् , मरणाभिलाषस्यापि निषिद्धत्वात् । उक्तं हिKI"मा मा हु विचिंतिज्जा, जीवामि चिरं मरामि य लहुँ ति । जइ इच्छसि तरिउ जे, संसारमहोयहिमपारं ॥१॥" ति । 'तुः' पूर्वापेक्षया विशेषद्योतकः । तत्र 'उत्कर्षेण' इत्युत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः। अकेवलिनो हि संयमजीवितं दीर्घमिच्छेयुरपि, मुक्त्यवाप्तिः इतः स्यादिति । केवलिनस्तु तदपि नेच्छन्ति, आस्तां भवजीवितमिति तन्मरणस्योत्कर्षेण सकामता, 'सकृत्' एकवारमेव भवेत् । जघन्येन तु शेषचारित्रिणः सप्ताऽष्ट वा वारान् भवेदित्याकूतमिति सूत्रार्थः ॥३॥ यदुक्तं-'इमे द्वे स्थाने' तत्राऽऽद्यं तावदाहतत्थिमं पढमं ठाणं, महावीरेण देसियं । कामगिद्धे जहा बाले, भिसं कूराई कुवइ ॥४॥ व्याख्या-तत्रे'ति तयोः अकाममरण-सकाममरणाख्ययोः स्थानयोर्मध्ये 'इदम्' अनन्तरमभिधास्यमानरूपं 'प्रथमम्' आद्यं स्थानं 'महावीरेणे'ति चरमतीर्थकृता, 'तत्रैको महाप्रज्ञः' इति मुकुलितोक्तेरभिव्यक्तार्थमेतत् , 'देशितं' प्ररूपितम् । किं तत् ? इत्याह-कामेषु-इच्छामदनात्मकेषु गृद्धः-अभिकाङ्कावान् कामगृद्धः, 'यथेति उपदर्शनार्थः, 'बालः' उक्तरूपः 'भृशम्' अत्यर्थ 'क्रूराणि' रौद्राणि कर्माणीति गम्यते, तानि च प्राणव्यपरोपणादीनि "कुवइ" त्ति 'करोति' "मा मैव विचिन्तयेः, जीवामि चिरं निये च लघु इति । यदीच्छसि तरीतुं, संसारमहोदधिमपारम् ॥१॥" XOXOXOXOXOXOXXXXXXX
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy