________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
॥ १०१ ॥
विशेषार्थस्तु बृहट्टीकातोऽवसेयः । “ऐत्थं पुण अहिगारो, णायबो होइ मणुयमरणेणं । मोत्तुं अकाममरणं, सकाममरणेण मरियवं ॥ १ ॥ " साम्प्रतं सूत्रमनुगम्यते—
अन्नवम्मि महोहम्मि, एगे तिन्ने दुरुत्तरं । तत्थ एगे महापन्ने, इमं पण्हमुदाहरे ॥ १ ॥
व्याख्या - अर्णव इव अर्णवः - अदृष्टपरपारतया भव एव तस्मिन् महान् ओघः - प्रवाहो भवपरम्परात्मको यस्मिन् स महौघः तत्र, 'एकः ' रागद्वेषादिसहभावरहितः, तीर्ण इव 'तीर्णः' तीरप्राप्त इत्यर्थः, "दुरुत्तरं " ति विभक्तिव्यत्ययात् 'दुरत्तरे' दुःखोत्तारे । तत्र 'एक:' तथाविधतीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भरते सम्भवति । महती - निरावरणतया अपरिमाणा प्रज्ञा-केवलज्ञानात्मिका संवित् विद्यतेऽस्य स तथा 'इमम्' अनन्तरवक्ष्यमाणं 'प्रश्नं' प्रष्टव्यार्थरूपम् "उदाहरे" उदाहृतवानिति सूत्रार्थः ॥ १ ॥ यदुदाहृतवांस्तदाह
संतिमे अ दुवे ठाणा, अक्खाया मारणंतिया । अकाममरणं चेव, सकाममरणं तहा ॥ २ ॥ व्याख्या—“संती”ति वचनव्यत्ययेन स्तः- विद्येते 'इमे' प्रत्यक्षे, 'चः' पूरणे, 'द्वे' द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने 'आख्याते' पुरातनतीर्थकृद्भिरपि कथिते, मरणमेवान्तः - निजनिजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके । ते एव नामत उपदर्शयति – 'अकाममरणं' वक्ष्यमाणस्वरूपं, 'चः' समुच्चये, 'एवे 'ति पूरणे, 'सकाममरणं' वक्ष्यमाण| स्वरूपमेव तथेति सूत्रार्थः ॥ २ ॥ केषां पुनरिमे ? कियद्वारा वा ? इत्यत आह
बालाणं अकामं तु, मरणं असई भवे । पंडियाणं सकामं तु, उक्कोसेण सई भवे ॥ ३ ॥ १ "अत्र पुनरधिकारो, ज्ञातव्यो भवति मनुजमरणेन । मुक्त्वाऽकाममरणं, सकाममरणेन मर्त्तव्यम् ॥ १ ॥”
(CXCXCXCXCXCX XOXOX CXCXCXCX
पञ्चमं
अकाममरणीयाख्य
मध्ययनम् ।
अकाम-स
कामाख्ये द्वे मरणस्थाने ।
॥ १०१ ॥