SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । पञ्चम अकाममरणीयाख्यमध्ययनम्। एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छद्मस्थमरण-केवलिमरणे आह-"मणपजवोहिनाणी, सुय-मइणाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो ॥ १॥" ११-१२।। वैहायस-गृध्रपृष्ठमरणे अभिधातुमाह-"गिद्धाइभक्खणं गि-द्धपिट्ठ उब्बंधणाइ वेहासं । एए दोन्नि वि मरणा, कारणजाए अणुनाया ॥१॥" न तु निष्कारणे, यतो भणितम्-“भौवियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणम्मि परम्मि य, तो वजे पीडमुभओ वि ॥१॥" अत एव च भक्तपरिज्ञादिषु पीडापरिहाराय संलेखनाविधिरक्तः । उक्तञ्च-"चत्तारि विचित्ताई, विगईनिजहियाइँ चत्तारि । संवच्छरे य दुन्नि वि, एगंतरियं च आयामं ॥१॥” इत्यादि । अनुज्ञाकारणं त्वनयोर्दर्शनमालिन्यपरिहारादि, उदायिनृपाऽनुमृततथाविधाऽऽचार्यवत् १३-१४॥ साम्प्रतमन्त्यमरणत्रयमाह-"भेत्तपरिन्ना इंगिणि, पाउवगमणं च तिन्नि मरणाई। कन्नस-मज्झिम-जेहा, धिइ-संघयणेण उ विसिट्ठा ॥१॥" 'कन्नस' त्ति कनिष्ठम् । “भत्तपरिनामरणं, चउबिहाऽऽहारचायनिप्पन्नं । नियमा सप्पडिकम्म, सवत्थ वि विगयसंगस्स ॥१॥" ""इंगियदेसम्मि ठिओ, चउबिहाहारवन्जिओ धीमं । उच्चत्तणाइ कारइ, नऽन्नेण उ इंगिणीमरणं ॥१॥" सप्तदशधा मरणविधिविभागः। ॥१०॥ १"मनःपर्यव-अवधिज्ञानिनः, श्रुतमतिज्ञानिनो मरन्ति ये श्रमणाः । छमस्थमरणमेतत् , केवलिमरणं तु केवलिनः ॥१॥" २ "गृ. | धादिभक्षणं गृध्रपृष्ठं उद्वन्धनादि वेहायसम् । एते द्वे अपि मरणे, कारणजातेऽनुज्ञाते ॥१॥" ३ “भावितजिनवचनानां, ममत्वरहितानां नास्ति खलु विशेषः । आत्मनि परसिंश्च, ततो वर्जयेत् पीडामुभयतोऽपि ॥१॥" : "चत्वारि विचित्राणि, नियूंढविकृतीनि चत्वारि । संवत्सरेच अपि, एकान्तरितं च आचाम्लम् ॥१॥" ५ "भक्तपरिज्ञा इङ्गिनी, पादपोपगमनं च त्रीणि मरणानि । कनिष्ठ-मध्यमज्येष्ठानि, धृति-संहननाभ्यां तु विशिष्टानि ॥ १॥" ६ “भक्तपरिज्ञामरणं, चतुर्विधाऽऽहारत्यागनिष्पन्नम् । नियमात् सप्रतिकर्म, सर्वत्रापि विगतसङ्गस्य ॥३॥" ७ “इजितदेशे स्थितः, चतुर्विधाऽऽहारवर्जितो धीमान् । उद्वर्तनादि कारयति, नाऽन्येन तु इङ्गिनीमरणम् ॥३॥" ॥१०॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy