________________
अन्तिकमरणम् — यानि नरकाद्यायुष्कतया कर्म्मदलिकान्यनुभूय म्रियते, मृतो वा न पुनस्तान्यनुभूय मरिष्यति । सप्तदशधा एवं क्षेत्रादिष्वपि वाच्यम् ३ ।
मरणविधिविभागः ।
वलन्मरणमाह – संजमजोगविसन्ना, मरन्ति जे तं वलायमरणं तु । भग्नव्रतपरिणतीनां व्रतिनामेवैतत् ४ । वशार्त्तमाह — इंदियविसयवसगया मरंति जे तं वसट्टं तु । दीपशिखावलोकनाकुलितपतङ्गवत् ५ ।
अन्तःशल्यमाह – “लैजाए गारवेण य, बहुस्सुयमएण वा वि दुश्चरियं । जे न कहिंति गुरूणं, न हु ते आराह्गा हुंति ॥ १ ॥ गारवपंकनिबुड्डा अइआरं जे परस्स न कहेंति । दंसणनाणचरित्ते, ससल्लमरणं भवे तेसिं ॥ २ ॥” पुनगरवाभिधानम् | अस्यैवाऽतिदुष्टताख्यापनार्थम् । परस्येति आचार्यादेः । एतस्यैव फलमाह – “एयं ससल्लमरणं, मरिऊण महम्भए तह दुरंते । सुइरं भमंति जीवा, दीहे संसारकंतारे ।। १ ।। " ६ ।
तद्भवमरणमाह — “मोत्तुं अकम्मभूमिय, नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु के सिंचि ॥ १ ॥ तुशब्दस्तेषामपि संख्येयवर्षायुषामेवेति विशेषख्यापकः ७ ।
बाल - पण्डित - मिश्रमरणान्याह — "विरयमरणं बालं, मरणं विरयाण पंडियं होइ । जाणाहि बाल- पंडियमरणं पुण देसविरयाणं ।। १ ।। ” ८-९-१० ।
१ " लज्जया गौरवेण च, बहुश्रुतमदेन वापि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो न खलु ते आराधका भवन्ति ॥ १ ॥ गौरवपङ्कनिमग्ना, अतिचारं ये परस्य न कथयन्ति । दर्शन- ज्ञान चारित्रे, सशल्यमरणं भवेत् तेषाम् ॥ २ ॥”
XCXCXCXXCXXXCXCX
२ “एतत् सशल्यमरणं, मृत्वा महाभये तथा दुरन्ते । सुचिरं भ्रमन्ति जीवा, दीर्घे संसारकान्तारे ॥ १ ॥” ३ “मुक्त्वाऽकर्मभूमिजान् नरतिरश्चश्च सुरगणांश्च नैरयिकान् । शेषाणां जीवानां तद्भवमरणं तु केषाञ्चित् ॥ १ ॥” ४ "अविरतमरणं बालं, मरणं विरतानां पण्डितं भवति । जानीहि बाल-पण्डितमरणं पुनर्देशविरतानाम् ॥ १ ॥"
XoXoXo