________________
पश्चम अकाममरणीयाख्यमध्यय
नम् ।
श्रीउत्तराध्ययनसूत्रे
अथ अकाममरणीयाख्यं पञ्चममध्ययनम् । श्रीनैमिचन्द्रीया सु-X
उक्तं चतुर्थमध्ययनम् । साम्प्रतम् अकाममरणीयाख्यं पञ्चममारभ्यते । तस्य चायमभिसम्बन्धः-'अनन्तराध्ययने खबोधा
"काङ्के गुणान् यावच्छरीरभेदः" इत्यभिधता मरणं यावदप्रमादो वर्णितः, ततो मरणकालेऽप्यप्रमादो विधेयः। स च | ख्या लघु
मरणविभागपरिज्ञानत एव भवति । ततो हि बालमरणादि हेयं हीयते, पण्डितमरणादि चोपादेयमुपादीयते । तथा वृत्तिः ।
चाऽप्रमत्तता जायते' इति अनेन सम्बन्धेनाऽऽयातमिदमिति, अतोऽस्य प्रारम्भे मरणविभागो नियुक्तिकृताऽभिहितः | ॥९९॥
सङ्केपतस्तावदुच्यते । तत्र सप्तदश मरणानि भवन्ति, अतस्तान्याह
"आवीइ ओहिं अंतिय, वलायमरणं वसट्टमरणं च । अंतोसलं तब्भव, बालं तह पंडियं मीसं ॥१॥ छमत्थमरण केवलि वेहायस गिद्धपिट्टमरणं च । मरणं भत्तपरिन्ना, इंगिणी पौओवगमणं च ॥ २॥
सत्तरस विहाणाई, मरणे गुरुणो कहंति गुणकलिया। तेसिं नामविभत्तिं, वोच्छामि अहाणुपुवीए ॥ ३॥" व्याख्या-तत्र अवीचिमरणम्-वीचिः-विच्छेदः तदभावाद् अवीचिः-नारकतिर्यनरामराणामुत्पत्तिसमयात् प्रभृति निजनिजायुष्कर्मदलिकानामनुसमयमनुभवनात् विचटनम् १ । ___ अवधिमरणम्-मर्यादामरणम् , यानि नारकादिभवनिबन्धनतयाऽऽयुष्कर्म्मदलिकानि अनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवाऽनुभूय मरिष्यति तदा तद् द्रव्याऽवधिमरणम् । सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां ग्रहणं परिणामवैचित्र्यात्, एवं क्षेत्रादिष्वपि भावनीयम् २ ।
| सप्तदशधा मरणविधिविभागः।
॥ ९९॥