SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ संयमोपहतिहेतुकमपि शरीरं निर्जरालाभमभिलषता तल्लाभं यावद्धार्यमिति ॥ न च तद्धारणे संयमोपरोध एव, यथाऽऽगमं Halहि प्रवृत्तस्य तत् तदुपष्टम्भकमेवेति भावनीयम् इत्यलं प्रसङ्गनेति सूत्रार्थः ।। ७ ॥ सम्प्रति यदुक्तं 'जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातव्यत एव उताऽन्यथा ? इत्याह___ छंद निरोहेण उवेइ मोक्खं, आसे जहा सिक्खियवम्मधारी। पुवाइ वासाई चरऽप्पमत्तो, तम्हा मुणी खिप्पमुवेइ मोक्खं ॥८॥ व्याख्या-'छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्षं' मुक्तिम् , किमुक्तं भवति ?-गुरुपारतब्येण स्वाग्रहविरहेण तत्र तत्र प्रवर्तमानोऽपि सङ्क्लेशविकल इति न कर्मबन्धभाक्, किन्त्वविकलचरणतया निर्जरणमेव प्राप्नोति । अप्रवर्त्तमानोऽपि आहारादिष्वाऽऽग्रहपरतया अनन्तसंसारिताद्यनर्थभाक् भवति । उक्तश्च-“छट्ठ-ऽहमदसम-दुवा-लसेहि मास-ऽद्धमासखमणेहिं । अकरंतो गुरुवयणं, अणंतसंसारिओ होइ॥१॥” तत् सर्वथा तत्परतश्रेणैव मुमुक्षुणा भाव्यम् । उक्तञ्च-"नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥ २॥" अत्र दृष्टान्तमाह-'अश्वः' तुरगो यथा शिक्षितः-वल्गनोप्लवनधावनादिशिक्षा प्राहितो वर्मधारीतनुत्राणधारी, पदद्वयस्य कर्मधाग्यः । अनेन शिक्षकतत्रतयाऽस्य स्वातत्र्यापोहमाह । ततोऽयमर्थः-यथा अश्वः स्वातव्यविरहात प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, स्वतस्तु प्रथममशिक्षितो रणमाप्तः तैरुपहन्यते । अत्र च सम्प्रदायः १ उपघातः । २ “षष्टा-ऽष्टम-दशम-द्वादशैर्मासा-ऽर्धमासक्षपणैः । अकुर्वाणो गुरुवचनं, अनन्तसांसारिको भवति ॥ १॥" ३ "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्या यावत्कथं, गुरुकुलवासं न मुवन्ति ॥२॥"
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy