SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ चतुर्थ असंस्कृताख्यमध्यय नम् । श्रीउत्तरा एवमन्येऽपि न वित्तेन त्राणमिहैव तावदानुवन्ति, आस्तामन्यजन्मनि । तन्मूर्छावतः पुनस्तस्याऽधिकतरं दोषमाह "दीवे"त्ति वृत्तार्धम् । प्राकृतत्वात् 'प्रणष्टदीप इव' विगतप्रकाशदीप इव इति दृष्टान्तः । अत्र सम्प्रदायःश्रीनैमिच- | जहा केई धाउवाइया सदीवगा अगि इंधणं च गहाय बिलमणुपविट्ठा । तेसिं पमाएण दीवो अग्गी वि विज्झाओ। जहा कई धाउवाइ दीयवत्तिातओ विज्झायदीवग्गिया गुहातममोहिया इओ तओ सबओ परिममंति । परिभमंता यं अप्पडियारमहाविसेहिं| सप्पेहिं डका, दुरुत्तरे अहेठाणे पडिया, तत्थेव निहणमुवगया । ॥८३॥ एवं अनन्तः-अपर्यवसितः तद्भव एव प्रायस्तस्याऽनपगमात् मोहः-अज्ञानमोहनीयरूपोऽस्य इति अनन्तमोहः, किम् ? इत्याह-निश्चित आयः-लाभः, न्यायः-मुक्तिरित्यर्थः, स प्रयोजनमस्य इति नैयायिकः तं सम्यग्दर्शनादिकं मुक्तिमार्ग| मिति गम्यते, "दुटुं" ति अन्तर्भूतापिशब्दार्थत्वात् 'दृष्ट्वाऽपि' उपलभ्यापि “अदट्ठमेव" ति प्राकृतत्वाद् अद्रष्टैव भवतीति । इदमाकूतम्-यथैव गुहान्तर्गतः प्रमादात् प्रणष्टदीपः प्रथममुपलब्धवस्तुतत्त्वोऽपि दीपाभावेन तद्रष्टैव जायते, तथा अयमपि जन्तुः कथश्चित् कर्मक्षयोपशमादेः मुक्तिमार्ग भावप्रकाशदीपात् श्रुतज्ञानात्मकाद् दृष्ट्वाऽपि वित्तादिव्यासक्तितः तदावरणोदयाद् अद्रष्टैव भवति, मोहादिहेतुत्वाद् वित्तादीनाम् । यदुक्तम्-"मोहाययणं मयका-मवद्धणो जणियचित्तसंतावो। आरम्भकलहहेऊ, दुक्खाण परिग्गहो मूलं ॥१॥" तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति, किंतु कथ|श्चित् त्राणहेतुं सम्यग्दर्शनादिकमवाप्तमुपहन्तीति सूत्रार्थः ॥ ५॥ एवं धनादिकं न त्राणाय इत्युपदर्य यत्कृत्यं तदाह सुत्तेसु आवी पडिबुद्धजीवी, ण वीससे पंडिय आसुपन्ने । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व चरऽप्पमत्तो॥६॥ 1 मोहायतनं मदकामवर्द्धनो जनितचित्तसन्तापः । आरम्भकलहहेतुर्दुःखानां परिग्रहो मूलम् ॥१॥" प्रमादवशजतस्य धनादिकं न त्राणाय । ॥८३॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy