________________
XOXOXO
यथा चायं वणिक् स्वजनस्वतत्त्वमालोचयन् प्रव्रज्यां प्रत्याद्रितः तथान्यैरपि विवेकिभिर्यतितव्यम् । तथा च वाचकः“रोगाघातो दुःखाऽर्दितस्तथा स्वजनपरिवृतोऽतीव । कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोऽसौ ॥ १ ॥ माता भ्राता भगिनी, भार्या पुत्रास्तथा च मित्राणि । न घ्नन्ति ते यदि रुजं, स्वजनबलं किं वृथा वहसि ? ॥ २ ॥ रोगहरणेऽप्यशक्ताः, प्रत्युत धर्म्मस्य ते तु विघ्नकराः । मरणाश्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? || ३ || तस्मात् स्वजनस्यार्थे, यदिहाकार्यं करोषि निर्लज्ज ! । भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥ ४ ॥ तस्मात् स्वजनस्योपरि, सङ्गं परिहाय निर्वृतो भूत्वा । धर्मं कुरुष्व यत्ना यत् परलोकस्य पध्यदनम् ॥ ५ ॥” इति सूत्रार्थः ॥ ४ ॥ इत्थं तावत् स्वकृतकर्मभ्यः । स्वजनान्न मुक्तिः इत्युक्तम् । अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्याद् अत आह—
वित्तेण ताणं न लभे पमत्तो, इमम्मि लोए अदुवा परत्था ।
दीवपणट्ठे व अनंतमोहे, णेयाउयं दद्रुमदद्रुमेव ॥ ५ ॥
व्याख्या- 'वित्तेन' द्रविणेन 'त्राणं' स्वकृतकर्मणो रक्षणं, 'न लभते' न प्राप्नोति । कीदृकू ? ' प्रमत्तः ' मद्यादिप्रमादवशंगतः । क ? इत्याह – “इमम्मि ” त्ति अस्मिन् अनुभूयमानतया प्रत्यक्ष एव 'लोके' जन्मनि “अदुवे "ति अथवा 'परत्रे' ति परभवे । कथं पुनरिहापि जन्मनि न त्राणाय ?, अत्रोच्यते वृद्धसम्प्रदायः
XBXCXBXQXCXXXXXCXXQX4
एगो किल राया इंदमहाईण कम्हि ऊसवे अंतेउरे निग्गच्छंते घोसणं घोसावेइ – जहा सधे पुरिसा णयराओ निग्गच्छंतु । तत्थ पुरोहियपुत्तो रायवल्लहो वैसाघरमणुपविट्ठो घोसिए वि न निग्गओ । सो रायपुरिसेहिं गहिओ । | तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइओ । दप्पायमाणो विवयंतो रायसगासमुवणीओ । राइणा वि बज्झो आणचो । पच्छा पुरोहिओ उवट्ठिओ भणइ - सबस्सं पि य देमि, मा मारिज्जउ । तो वि न मुक्को । सूलाए भिन्नो ||