________________
संसारमावन परस्स अट्ठा, साहारणं जं च करेइ कम्मं ।
कम्मरस ते तस्स उ वेयकाले, जबंधवा बंधवयं उति ॥४॥ | व्याख्या-संसरणं संसारः-तेषु तेषु उच्चावचेषु कुलेषु पर्यटनं सम् 'आपन्नः' प्राप्तः 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य, "साहारणं जंच" त्ति चस्य वाशब्दार्थत्वाद् भिन्नक्रमत्वाच साधारणं वा यद् 'आत्मनोऽन्येषां चैतद् भविष्यति' इति अभिसन्धिपूर्वकं 'करोति' निर्वर्त्तयति भवान् 'कर्म' कृष्याद्यनुष्ठानम् । 'कर्मणः' तस्यैव कृष्यादेः 'ते' तव कर्मकतुंः 'तस्यापि' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामन्यनिमित्तस्य इत्यभिप्रायः, 'वेदकाले' विपाककाले 'न' नैव 'बान्धवाः' खजनाः यदर्थ कर्म कृतवान् ते 'बान्धवता' बन्धुतां तद्विभजनापनयनादिना "उविति" त्ति उपयान्ति ।। उक्तश्च-"बंधवा सुहिणो सबे, पी-माई-पुत्त-भारिया । पेयवणाओ नियत्तंति, दाऊण सलिलंजलिं ॥ १॥ अब्भुक्खंति य तं गेहं, पियम्मि वि मए जणे । हिट्ठा तेणऽजियं दवं, तहेव विलसंति य ॥ २ ॥ अत्थोवजणहेऊहिं, पावकम्मेहि पेरिओ । एक्कओ चेव सो जाइ, दुग्गइंदुहभायणं ॥३॥" यतश्चैवम् अतस्तदुपरि प्रेमादिपरिहारतो धर्म एवावहितेन भाव्यम् । तथाविधाऽऽभीरीवञ्चकवणिग्वत् । तथा च वृद्धाः
एगम्मि नयरे एगो वाणियगो अंतरावणे ववहरइ । एगा आमीरी उजुगा दो रूवगे घेत्तण कप्पासनिमित्तमुवट्ठिया । कप्पासो य तया समहग्यो य वट्टइ । तेण वाणियगेण एगस्स रूवगस्स दो वारे तोलेउं कप्पासो दिन्नो । सा जाणइ 'दोण्ह
. "बान्धवाः सुहृदः सर्वे, पितृमातृपुत्रभार्याः । प्रेतवना निवर्तन्ते, दरवा सलिलाञ्जलिम् ॥ १॥ अभ्युक्षन्ति च तद् गृहं, प्रियेऽपि मृते जने । हृष्टास्तेनार्जितं द्रव्यं, तथैव विलसन्ति च ॥ २ ॥ अर्थोपार्जनहेतुमिः, पापकर्मभिः प्रेरितः । एककश्चैव स याति, दुर्गतिं दुःखभाजनाम् ॥३॥"