________________
मणिनः जन्तवः "कामासारे । केष्विव के ?, सर्व
च
क्षत्रियग्रहणाद् उत्तमजातयः चाण्डालग्रहणात् नीचजातयो बोकसग्रहणात् सङ्कीर्णजातय उपलक्षिताः। ततः 'कीटः' प्रतीतः 'पतङ्गः' शलभः 'च: समुच्चये । ततः कुन्थुः पिपीलिका च । चकारस्य लुप्तत्वाद् भवतीति योज्यम् । अशेषतिर्यग्भेदोपलक्षणमेतदिति सूत्रार्थः ॥ ४ ॥ आह-किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वा ? इत्याह
एवमावहजोणीसं, पाणिणो कम्मकिब्बिसा। न निविजंति संसारे, सबढेसु व खत्तिया ॥५॥ कम्मसंगेहि सम्मूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मति पाणिणो॥६॥ व्याख्या-एवम्' अमुना न्यायेन आवतः-परिवर्तः तत्प्रधाना योनयः-चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि आवर्तयोनयस्तासु 'प्राणिनः' जन्तवः “कम्मकिब्बिस" ति प्राकृतत्वात् किल्बिषकर्माण:-अधमकर्माणः 'न निर्विद्यन्ते' कदाएतन्मुक्तिः इति नोद्विजन्ते । कता आवर्तनयोनयः ? संसारे । केष्विव के ?, सर्वे च ते अर्थाश्च-धनकनकादयः तेष्विव 'क्षत्रियाः' राजानः । किमुक्तं भवति ?-यथा मनोज्ञान् शब्दादीन भुञ्जानानां तेषां तर्षों वर्द्धते, एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि भवाभिनन्दिनाम् । कथमन्यथा न तप्रतिघातार्थमुद्यच्छेयुः ? इति भावः । अनिर्विद्यमानाश्च 'कर्मसङ्गैः' ज्ञानावरणीयादिसम्बन्धैः 'सम्मूढाः' भृशं वैचित्यमुपगताः 'दुःखिताः' असातयुक्ताः, कदाचित् तन्मानसमेव स्याद् अत आह-'बहुवेदनाः' प्रचुरशरीरव्यथाः । 'अमानुषीषु' नरकतिर्यगाऽऽभियोग्यादिदेवदुर्गतिसम्ब-| धिनीषु योनिषु 'विनिहन्यन्ते' विशेषेण निपात्यन्ते अर्थात् कर्मभिः । कोऽर्थः-न तत उत्तारं लभन्ते प्राणिनः । तदनेन | सत्यप्यावर्ते निर्वेदाभावाद् दुःखव्याकुलनरकादिगत्यनुत्तरणेन जन्तवो मनुजत्वं न लभन्त इत्युक्तम् । इति सूत्रद्वयार्थः ॥ ५ ॥ ६ ॥ कथं तर्हि तवाप्तिः ? इत्याह
कम्माणं तु पहाणाए, आणुपुषी कयाइ उ। जीवा सोहिमणुप्पत्ता, आयणंति मणुस्सयं ॥७॥
वंतासु तासु