SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयं चतुरङ्गीयाध्ययनम् । ___ उक्तं परीषहाध्ययनम् , सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहाऽनन्तराऽध्ययने परीषहसहनमुक्तं, al'तञ्च किमालम्बनमुररीकृत्य कर्त्तव्यम्' इति प्रश्नसम्भवे मानुषत्वादिचतुरजदुर्लभत्वमालम्बनम्, अनेनोच्यते, इत्यनेन | सम्बन्धेनाऽऽघातस्याऽस्येदमादिसूत्रम् चत्तारि परमंगाणि, दल्लहाणीह जंतुणो। माणुसत्तं सुई सद्धा, संजमम्मि य वीरियं ॥१॥ __ व्याख्या-'चत्वारि' चतुःसंख्यानि 'परमाङ्गानि' प्रधानकारणानि प्रक्रमाद् धर्मस्य 'दुर्लभानि' दुःप्राप्याणि 'इह' | संसारे 'जन्तोः' देहिनः । तान्येवाह-मानुषत्वं' नरजन्म । उक्तं हि-"जम्मजरामरणजले, नाणाविहवाहिजलयराइन्ने । भवसायरे अपारे, दुलहं खलु माणुस जम्मं ॥१॥" 'श्रुतिः' श्रवणं धर्मस्य इति गम्यते । यतः-"आलस्स | मोहऽवन्ना थंभी कोहा माय किवणत्ता । भैय सोयो अन्नाणा, वक्खेव कोहला रैमणा ॥१॥ एएहिं कारणेहिं, लभ्रूण सुदुल्लहं पि माणुस्सं । न लहइ सुई हियकरिं, संसारुत्तारणिं जीवो ॥२॥" 'श्रद्धा' श्रद्धानं धर्मस्यैव । तथा हिकुँबोहमिच्छाहिनिवेसजोगओ, कुसत्थपासंडिविमोहिया जणा । न सद्दहते जिणनाहदेसियं, चइंति बोहिं पुण के वि | पावियं ॥ १ ॥ 'संजमे' विरतौ 'चः' समुच्चये 'वीर्य' सामर्थ्यम् इति सूत्रार्थः॥१॥ १ "जन्म-जरा-मरणजले, नानाविधव्याधिजलचराऽऽकीर्णे । भवसागरे अपारे, दुर्लभं खलु मानुषं जन्म ॥१॥" २ “आलस्याद् मोहाद् अवज्ञायाः स्तम्भात् क्रोधात् प्रमादात् कृपणत्वात् । भयात् शोकाद् अज्ञानाद्, व्यापाद् कुतूहलात् रमणात् ॥ १॥ एतैः कारणैर्लब्ध्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुतिं हितकरी, संसारोत्तारिणिं जीवः ॥२॥" ३ कुबोधमित्थ्याऽभिनिवेशयोगतः, कुशास्त्रपाखण्डिविमोहिता जनाः। न श्रद्दधते जिननाथदेशितं, त्यजन्ति बोधि पुनः केऽपि प्राप्ताम् ॥१॥
SR No.600327
Book TitleSukhbodhakhya Vruttiyutani Yttaradhyayanani
Original Sutra AuthorN/A
AuthorUmangsuri, Nemichandrasuri
PublisherPushpchandra Kshemchandra
Publication Year1937
Total Pages798
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy