________________
| रूपाणि 'कृतानि' ज्ञाननिन्दादिभिः उपार्जितानि । यदुक्तम्-"ज्ञानस्य ज्ञानिनां वाऽपि, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च | विनैश्च, ज्ञाननं कर्म बध्यते ॥१॥" मया इत्यभिधानञ्च स्वयमकृतस्योपभोगासम्भवात् । उक्तश्च-"शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः । स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ २॥" कुत एवमेतद् ? इत्याह-'येन' हेतुना अहं |'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित्' स्वयमजानता जानता वा "कण्हुइ" त्ति 'कस्मिंश्चित्' जीवादी वस्तुनि सुगमेऽपि ॥ | आह-यदि पूर्व कृतानि कर्माणि किं न तदैव वेदितानि ? उच्यते___ अथ' इति वक्तव्यान्तरोपन्यासे, 'पश्चात्' अबाधोत्तरकालम् 'उदीयन्ते' विपच्यन्ते कर्माणि अज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेष तेषां विपाकदानात् , ततस्तद्विधातायैव यत्रो विधेयो न तु विषादा, 'एवं' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैवव्यं कृथा इत्यर्थः। उक्तमेव हेतुं निगमयति-ज्ञात्वा 'कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रद्वयार्थः ।। ४०-४१ ॥ उपलक्षणत्वाच्च अस्य ज्ञानावरणक्षयोपशमात् प्रज्ञोत्कर्षे नोत्सेको विधेय इत्यपि दृश्यम् । यतः-पूर्वपुरुषसिंहानां, विज्ञानाऽतिशयसागरानन्त्यम् । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥ __ उदाहरणम्-उजेणीए अज्जकालगा आयरिया उज्जयविहारिणो चरणकरणाऽऽराहणतप्परा बहुस्सुया समागया। तेसिं सीसा कम्मवसतो मंदसद्धा सुत्तत्थे नाहिज्जेति, साहुसामायारीए वि अलसायति । सारिजंता वि मिउवाणीए |वि न सम्म पयर्टेति । कहिंचि निभत्थिया कलुसयं वहति । ततो सूरिणा 'पुणो पुणो इमेसिं सारणाए सुत्तत्थहाणी कम्मबंधो य हवई' त्ति साहिऊण सेज्जायरस्स परमत्थं राईए निग्गया नयराओ । गया य सुवनभूमीए विहरमाणस्स बहुगच्छपरिवारस्स निययनत्तुयसीसस्स बहुसुत्तत्थस्स सागरखमणस्स सयासं । अपरियाणतेण य न अब्भुट्टिया तेण ।
, नत्तुभ० नतृ-पुत्र (शिष्य)।