________________
छिद्यन्ते कृपणास्त्र, पतद्भिर्वातकम्पितैः ॥ ४ ॥ इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनाः, तत् कियतीयम् ? भूयांश्च लाभः स्ववशस्य सम्यक् सहने । भणियं च " असासए सरीरम्मि, विन्नाए जिणसासणे । कम्मे वेइज्जमाणम्मि, | लाभो दुक्खहियासणं ॥ ५ ॥ " एवमन्यैरपि सोढव्यस्तृणपरीषहः । तृणानि मलिनान्यपि कानिचित् स्युरिति तत्संपर्कात् स्वेदेन जल्लसम्भव इति तत्परीषहमाह
किलिन्नगातो मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥
व्याख्या — 'क्लिन्नगात्रः ' व्याप्तदेहः 'मेहावी' "बोहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वोक्कंतो होइ आयारो, जढो हवइ संजमो ॥ १ ॥" इत्यागमवेदितया अस्नानरूपमर्यादावर्त्ती 'पङ्केन वा' स्वेदार्द्रमलरूपेण 'रजसा वा' पांशुना ग्रीष्मे वाशब्दात् शरदि 'परितापेन' हेतुभूतेन, क्रिमुक्तं भवति ? - परितापात् स्वेदः, स्वेदाश्च पङ्करजसी, ततः किन्नगात्रता भवति । 'सातं' सुखम् आश्रित्येति शेषः 'नो परिदेवयेत्' 'कथं कदा वा मे मलस्यास्यापगमो भविष्यति ?' इति न प्रलपेदिति सूत्रार्थः ॥ ३६ ॥ किं तर्हि कुर्यात् ? इत्याह
वेइज्ज निज्जरापेही, आरियं धम्मऽणुत्तरं । जाव सरीरभेओ त्ति, जल्लं कारण धारए ॥ ३७ ॥
व्याख्या – 'वेदयेत' सहेत प्रक्रमात् जलजनितं दुःखं 'निर्जरापेक्षी ' आत्यन्तिककर्मक्षयाभिलाषी 'आर्यं धर्म' श्रुतचारित्ररूपम् 'अनुत्तरं ' सर्वोत्तमं प्रपन्न इति गम्यते । सामर्थ्योक्तमप्यर्थमादरख्यापनाय पुनराह – 'यावत्' इति मर्यादायाम्, | 'शरीरभेदः' देहविनाशः तं मर्यादीकृत्य 'जल्लं' मलं कायेन धारयेत् । दृश्यन्ते हि केचिद् दवदग्धस्थाणुवद् विच्छायकृष्ण
१ "व्याधितो वाsरोगी वा, स्वानं यस्तु प्रार्थयेत् । व्युत्क्रान्तो भवत्याचारः त्यक्तो भवति संयमः ॥ १ ॥”