________________
श्रीउत्तरा - ध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः
॥ ४७ ॥
XCXCXCXXCXCXXXXXXXX
व्याख्या- 'आतपस्य ' धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना । एवं च किम् ? इत्याह'एतत्' अनन्तरोक्तं ज्ञात्वा 'न सेवन्ते' न भजन्ते 'तन्तुजं' वस्त्रं कंबलं या 'तृणतर्जिताः' तृणकदर्थिताः । किमुक्तं भवति ? — यद्यपि तृणैरत्यन्तवि लिखितशरीरस्याऽऽतपसमुत्पन्नस्वेदवशतः क्षतक्षारनिक्षेपरूपैव पीडा भवति तथापि कर्मक्षयार्थिभिर्मुनिभिर्वस्त्राद्यगृह्णद्भिरार्त्तध्यानमकुर्वाणैः सम्यक् सहनीया । जिनकल्पिकापेक्षं चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद् वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३५ ॥
उदाहरणम् – साबत्थीनयरीनिवासिणो जियसत्तुस्स रन्नो पुतो भद्दो नाम । सो लहुकम्मयाए – “माणुसजम्मु दुर्लभउ पुणरवि एत्थ जणा !, जिणवरधम्म पयत्तिहि लग्गह एकमणा । पुत्तकलत्तपससहं विसएहिं भोलियां, होसिहिं फुडुच्छ दंत मुहु पोल्लउ जोवणि वोलियहं ॥ १ ॥ " एमाइधम्मोवएसं सोऊण निचिष्णकामभोगो तहारूवाणं थेराणं अंतिए पबइओ, गहियकिरियाकलावो बहुस्सुओ जाओ, कालेण एगल्लविहारपडिमं पडिवन्नो | अन्या विहरंतो बेरको 'चारिउ' ति काऊण गहिओ रायपुरिसेहिं पुच्छिओ - को तुमं ? केण वा चारियते निउतो ? । सो भयवं न जंपइ । पइरुट्ठेहि य अणज्जेहिं बंधावेऊण खुरेण तच्छियद भेहिं वेढिऊण मुक्को । सो दम्भेहिं विलिहिज्जतमंसो तं सम्मं सहइ बेयणं, चिंतेइ य – प्रदीप्ताङ्गारपूर्णेषु, वस्त्रकुण्डेष्वसन्धिषु । कूजन्तः करुणं केचिद् दह्यन्ते नरकाग्निना ॥ १ ॥ अग्निमीताः प्रधावन्तो, गत्वा वैतरणीं नदीम् । शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते ॥ २ ॥ क्षारदग्धशरीराश्य, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥ ३ ॥ शक्त्यष्टिप्रासकुन्तैश्च खङ्गतोमरपट्टिशैः १ "मानुषजन्म दुर्लभं पुनरप्यत्र जनाः !, जिनवरधर्मे प्रयत्रैः लगतैकमनसः । पुत्रकला प्रसक्तानां विषयैर्वञ्चितानां भविष्यन्ति स्फुटं अक्षिणी दन्ता मुखं शुषिराणि यौवने गते ॥ १॥"
द्वितीयं परीषहा
ध्ययनम् ।
11 80 11