________________
श्रीउत्तराध्ययनसूत्रे श्रीनैमिचन्द्रीयवृत्तिः ॥ ४६ ॥
XXXX
CXCXCXCX
व्याख्या – 'ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं दुःखयतीति दुःखः - ज्वरादिरोगः तं 'वेदनया' स्फोटक पृष्ठग्रहाद्यनुभवरूपया दुःखेन आर्त्तः क्रियते स दुःखार्त्तितः 'अदीनः' अविकुवः 'स्थापयेत्' दुःखार्त्तितत्वेन चलन्तीं स्थिरीकुर्यात् 'प्रज्ञां ' 'स्वकर्मफलमेव एतत्' इति तत्त्वधियम्, अपेलुप्तत्वाद् यदा पुष्टैर्व्याधिभिः 'स्पृष्टोऽपि' व्याप्तोऽपि राजमन्दादिभिः । 'तत्र' प्रज्ञास्थापने 'अध्यासीत' अधिसहेत, प्रक्रमाद् रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ स्यादेतत् चिकित्सया किं न तदपनोदः क्रियते ? इत्याह
तिगिच्छं नाभिणंदेजा, संचिक्खऽत्तगवेसए । एयं खु तस्स सामण्णं, जंण कुज्जा ण कारवे ॥३३॥ व्याख्या – 'चिकित्सां' रोगप्रतीकाररूपां 'नाऽभिनन्देत् ' नाऽनुमन्येत अनुमतिनिषेधाच्च दूरापास्ते करणकारणे । “ संचिक्ख" त्ति प्राकृतत्वादेकारलोपे 'संचिक्षेत' समाधिना तिष्ठेत, न कूजितकर्करायितादि कुर्यात् । आत्मानं चारित्रात्मानं गवेषयति - तद्पायरक्षणेन मार्गयतीति आत्मगवेषकः । किमित्येवम् ? अत आह— 'एतत्' अनन्तरमभिधास्यमानं " खु” ति यस्मादर्थे ततो यस्मादेतत् 'तस्य' श्रमणस्य 'श्रामण्यं' श्रमणभावो यन्न कुर्यात् न कारयेद् उपलक्षणत्वान्नाऽनुमन्येत प्रक्रमाञ्चिकित्साम्, जिनकल्पिकापेक्षं चैतत्, स्थविरकल्पिकास्तु अपवादे पुष्टालम्बिनो यतनया कारयन्त्यपि । यदुक्तम् — "काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं च नीईए वि सारविस्सं, सालंबसेवी समुवेइ मोक्खं ॥ १ ॥ तथा —भा कुणउ जइ तिगिच्छं, अहियासेऊण जइ तरइ सम्मं । अहिया संतस्स पुणो, जइ से जोगा न हायंति ॥ २ ॥ इति सूत्रार्थः ॥ ३३ ॥
१ "करिष्ये ऽच्छित्तिमथवाऽध्येष्ये तपउपधानेषु चोद्यंस्ये । गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् ॥ १ ॥”
२ " मा करोतु यदि चिकित्सां, अध्यासितुं यदि शक्नोति सम्यक् । अध्यासमानस्य पुनर्यदि तस्य योगा न हीयन्ते ॥ २ ॥"
द्वितीयं परीषहाध्ययनम् ।
॥ ४६ ॥