________________
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
'उपयोगेन' चिन्तनेन 'दृष्टसारा' उपलब्धकर्मरम्यत्वात् कर्मणि 'प्रसङ्गो'ऽभ्यासः । 'परिघोलनं विचारस्ताभ्यां विशाला ।।९४६।। अस्या अपि दृष्टान्तैः स्वरूपं दर्शयन्नाह -
हेरनिए करिसए, कोलिय डोवे य मुत्ति घय पवए । तुन्नाग वडई, पूइए य घड चित्तकारे य ।।९४७।। हरण्यकः 'परीक्षि अभ्यासाद् ध्वान्तेऽपि शुद्धं कूटं वा रूपकं हस्तामर्शेन वेत्ति । कर्षकोऽभ्यासात्फलनिःफ[ष्फ]त्तिं वेत्ति ।।९४७।। अत्र कथा -
चौरेणेकेन कमलाकारं खात्रमखन्यत । प्रातः सोऽपि प्रशंसां स्वां, शृणोति जनतामुखात् ।। तच्छ्रुत्वा कर्षक: स्माह, दुःकाष्कारं शिक्षितस्य किम् । आकृष्य छुरिकां चौरो, गत्वा तं कर्षकं जगी ।२। मत्कीर्तेरसहिष्णुं त्वां, मारयिष्याम्यहं खलु । किमुत्सुकोऽसि सोऽवादीद्विज्ञानं पश्य मेऽधुना ।३। पटीं प्रस्तार्य भृत्वा च, व्रीहिमुष्टिं तमभ्यधात् । विमुखाः संमुखा वाऽपि, पतन्तु व्रीहयो वद ।४। यथोक्ताः पातितास्तेन, संतुष्टः पारिपन्थिकः । कोलिको मुष्टिना तन्तून्, गृहीत्वा वक्ति कण्डकः ।५। इयद्धिः स्यात्पटः काचित्, प्रागेव परिवेशिका । जानात्यन्नमियदीयमानं सन्मात्रयाऽनया ।६। १. 'परीक्षिः' ल, ल, ख छ प, । २. 'कण्डकः' ल, कण्टकैः ल, प, छ मण्डकेत् प .हरण्यकः - स्वर्णकारः ।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः कर्मजा । गाथा-९४७
५८२
*****
५८२ [७८]
बर