________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५८१
विवादे राजधानीं तं नीयमानं जगौ पुमान् । पतितोऽश्वान्निहत्याश्वं त्रस्तं वालय भद्र ! मे ।४ । तेन मर्माहतो वाजी, मृतस्तेनाऽप्यसौ धृतः । ते त्रयोऽप्युषिता रात्रौ पुराद्वहिरधोवटम् ॥५॥ तत्र सन्ति नटाः सुप्ता, सोऽथ दध्यौ ममाऽनयोः । भावि दासत्वमाजन्म, तदत्रोद्बन्धनं वरम् ।६ । स तत्रैव वटे दण्डीखण्डेनोद्वन्धनं व्यधात् । त्रुटिते तत्र पतनात्, मृतोऽधःस्थो जन्नटः ॥७॥ विलग्नास्तेऽपि तस्याऽथ, सर्वे तं करणेऽनयन् । अमात्यस्य त्रिभिरपि यथावृत्तं निवेदितम् ॥८ ॥
पृष्ट सर्व विमृश्य सचिवोऽभ्यधात् । दास्यत्यसौ बलीवर्दो, परं तत्स्वामिनो दृशौ । ९ । ग्राह्ये याभ्यां मुच्यमानौ वाटके तो विलोकितौ । देयोऽश्वोऽनेन सा छेद्या, जिह्वाऽश्वस्वामिनो यया ॥ १० ॥ हत्वाऽश्वं वालयेत्युक्तं, नटाचोक्ता अधोवटम् । शयिष्यतेऽसौ मध्याद्वः, पततू कश्चन । ११ ।
इत्युक्ते मन्त्रिणा सर्वे, मुक्त्वा तं नेशुराशु ते । निःपु[ष्पु]ण्यको वराकः स, विसृष्टो मन्त्रिणा ततः । १२ । मन्त्रिणो वैनयिकी । कर्मजामाह -
उवओगट्टिसारा, कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवई, कम्मसमुत्था हवइ बुद्धी ।।९४६ ।।
*****
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे
सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी ।
गाथा - ९४६
५८१
[७७]