________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
M
यवमात्रं विषं वैद्यो, गृहीत्वाऽऽगानृपोऽकुपत् । विषं सहस्रवेधीदं, वैद्योऽवक् मा कुपः प्रभो ! ।२। कथमेतत्करी तेनाऽऽनायि क्षीणायुरस्य तत् । श्मश्रुमुत्पाट्य तत्राऽदाद्विषीभूतः स कुञ्जरः ।। तद्धजोऽपि विषीभावस्तस्याऽप्याऽऽदी विषीभवेत् । सहस्रं यावदेवं तत्, कुरुते विषरूपताम् ।४। राजोचे वालनाप्यस्ति, स ऊचेऽऽस्तीत्यथाऽऽनयत् । औषधं तल्लवं दत्त्वा, शमयामास तद्विषम् ।५। वैद्यस्य वैनयिकी । रथिकगणिकयोः - पत्तने पाटलीपुत्रे, वेश्ये द्वे विश्वविश्रुते । कोशाद्याऽनूपकोशा च, तत्र कोशा विशेष्यते ।। यया समं स्थूलभद्रो, द्वादशाब्दीमवास्थितः । अथाऽऽदाय व्रतं तस्याः, सौधे स प्रावृषं स्थितः ।२। तद्ब्रह्मवतदाढर्चेन, साऽभवत्परमाहती । विना राजाभियोगेन, प्रत्याचख्यो नृसङ्गमम् ।३। । आढ्यः कलावान् रथिकस्तेनाराध्यत भूपतिः । तुष्टः कोशामदात्तस्य, तत्पुरोऽहर्निशं तु सा ।४। स्थूलभद्रगुणानेव, भूयो भूयः प्रशंसति । न तथोपाचरत् तं तु, स तां रञ्जयितुं रथी ।५। अशोकवनिकां नीत्वा, विद्धा तेनाम्रलुम्बिका । शरानाविध्याऽनुपुङ्खमर्धचन्द्रेषुणा ततः ।६।
आ.नि. नमस्कार नियुक्तिः वस्तु
द्वारे सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी। गाथा-९४५
५७८ [७४]
१. 'मा कुष' ल मा कुप्र प..आदि - अदनं अस्याऽस्ति आदिन् । * पुढं - बाणमूलम्, तस्यानु पश्चात् - अनुपुखम् ।
BASIRRIXXX