SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति: श्रीतिलकाचार्यलघुवृत्तिः ५७९ छित्वा मूलात्करेणात्ताऽऽकृष्य स्थानस्थितेन सा । तथाऽप्यरक्ता साऽवादीद्, दुः [ष्क]करं शिक्षितस्य किम् ॥७॥ सिद्धार्थशी सूच्यग्रे, सा स्वं नृत्यमदर्शयत् । रञ्जितः कलया तस्या, रथिकः साऽथ तं जगौ |८| न दुःक[ष्क]रं यत्कलिताम्रलुम्बिका न दुःक[ष्क]रं शिक्षितनर्त्तनं च । तदुःक [ष्क]रं यत्स महानुभावो मुनिर्मदीयोपवनेऽवसद्यत् ।९। ततः श्रीस्थूलभद्रस्य, वृत्तान्तं पृष्टवान् रथी । कोशा सर्व तदाचख्यौ, बुद्धः श्राद्धोऽथ सोऽभवत् ॥१०॥ द्वयोरपि वैनयिकी । शीतसाटिकायां राज्ञः कस्यापि कोऽप्यध्यापकः पुत्रानपाठयत् । दत्तं प्राज्यं धनं तस्य, निःप[प]त्रेषु सुतेषु सः ।१ । दध्यौ लुब्धो विनाश्यैनं गृह्णामि द्रव्यमात्मनः । तं च राजाशयं ज्ञात्वा कुमारास्ते व्यचिन्तयन् ।२। दत्ता विद्याऽमुनाऽस्माकमसौ निस्तार्य एव तत् । तस्मिन् भोक्तुमथाऽऽयाते, स्त्रातुं याचति साटिकाम् ॥३॥ ऊचुर्भङ्गा तदाख्यातुं स्वरूपं तस्य तत्तदा । शुष्कापि साटिका शीता, कृत्वा द्वारमुखं तृणम् ॥४ ॥ सुदीर्घ तृणमित्यूचुर्वामं क्रौञ्चमबिभ्रमत् । दध्यावध्यापकोऽध्यात्मं, छात्रोक्तिमथ भाववित् ॥५॥ साटिकाशैत्यवाचोक्तो, राज्ञो मां प्रत्यनादरः । उक्तो दीर्घतृणोक्तेश्च दीर्घोऽध्वा मे पलायने ॥ ६ । क्रौञ्चावतारणाद्वामादुक्तं मृत्युभयं मम । क्रियते यन्मृतस्यैव, वामक्रौञ्चाऽवतारणम् ॥७॥ तज्ज्ञात्वा स ससर्वस्वः, पलायिष्ट महानिशि । वैनयिक्युभयेषां धीश्छात्राणां पाठकस्य च ॥८॥ **************************** आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी । गाथा- ९४५ ५७९ [ ७५ ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy