SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आवश्यक- * नियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः अश्वस्वामी विदित्वेमी, हयौ संपूर्णलक्षणौ । उवाचैतौ विमुच्य त्वं, गृहाणाऽन्यान् बहूनपि ।६। तद्वर्ज सोऽपरात्रैच्छदश्वेशोऽथाऽब्रवीतिप्रयाम् । दीयतेऽस्मै सुता येन, गृहजामातृतां गतः ।७। नादायान्यत्र यात्वश्वौ, हीनोऽसावित्यदान सा । दृष्टान्तमाख्यदश्वेशः, पत्न्यै वर्धकिदारकम् ।८। नगरे क्वाऽपि कोऽप्यासीद्, वर्धकिस्तस्य वेश्मनि । आगात्प्राघुर्णको भागिनेयो वर्धकिदारकः ।। सल्लक्षणः सुविज्ञान:, पुत्रीं स्वां परिणाय्य सः । गृहे च स्थापितः किञ्चिन्न कर्म कुरुते पुनः ।१०। उपविष्टोऽस्ति भुङ्क्ते च, शेते वार्ताः करोति च । भार्यया प्रेरितः सोऽथ, तिष्ठन्नेवं न लजसे ।११। ततः काष्ठकते 'नित्यं, नित्यं स यात्युपैति च । षड्भिर्मासैः क्वचित्पाप, चैत्रकं दारुखण्डकम् ॥१२॥ तदानीय कणान्मातुं, निर्माय कुडवं ततः । तं समाऽऽह पत्न्येष, देयो लक्षण नाऽन्यथा ।१३।। हट्टमध्ये ययौ साथ, दिव्यालङ्कारधारिणी । दत्ते तं लक्षमूल्येन, सर्वेऽप्युपहसन्ति ताम् ।१४ । यामद्वये व्रजन भोक्तुं, धनश्रेष्ठी विलोक्य तम् । उवाच लभ्यतेऽसौ किं, सोचे लक्षण लभ्यते ।१५। दध्यो श्रेष्ठी ध्रुवं मूल्यमियदेतत्सकारणम् । ऊचे तामेहि यच्छामि, लक्षमेकं परीक्ष्य ते ।१६। १. 'प्रेषितः' ख ल, ल, प, । २. नित्यं स गिरो ल । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी। गाथा-९४५ ५७६ 業準準準準準準準準準準準準準準準準準準準準準準準 ५७६ [७२] *********
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy