________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्यलघुवृत्तिः
५७५
******
वासुदेवोऽग्रहीदेकं कृशं सल्लक्षणं हयम् । यस्मिन् सति भवन्त्यन्ये, भूयांसस्तत्प्रभोगृहे । २ । वासुदेवस्य वैनयिकी । गर्दभद्वारे - कश्चिद्राजा युवा धत्ते, यून एवात्मनोऽन्तिके । ससेनः सोऽन्यदाऽयासीत्कञ्चनाऽपि रिपुं प्रति । १ । पतितो निर्जलेऽरण्ये, राजा वृद्धममार्गयत् । युवानः स्वल्पदृश्वानो, जलोपायं न जानते |२| प्रच्छन्नं पितृभक्तेनाऽऽनीतोऽभूत्केनचित्पिता । सोऽथाऽदर्शि तदा राज्ञः, पृष्टो राज्ञा न्यवेदयत् ॥३॥ रासभश्चरणाघातान्, प्रयच्छन् सादरं भुवम् । स्वामिन् ! जिघ्रति तत्राम्बु खाते, स्वल्पेऽप्यवाप्यते ॥४॥ तथैव खानिते राज्ञा, जलमुन्मीलितं क्षणात् । वृद्धस्य वैनयिकी ।
लक्षणे - कस्याऽपि पारसे कूले, भूयांसो वाजिनस्ततः । ममाश्वसंहतेर्मध्याद्, ग्राह्यमश्वद्वयं त्वया ॥१॥ वर्षान्ते स्वेच्छयेत्युक्त्वा, धृतस्तेनाऽश्वरक्षकः । तत्पुत्र्या च समं तस्य, मेलोऽस्तीति भृतेः क्षणे ॥२॥ पृष्टा साऽऽख्याहि मे किञ्चिदश्वयुग्मं सलक्षणम् । साऽऽख्यत्त्रस्यति निर्घाताद्रणतूर्यस्वनाञ्च न ॥३॥ शेषेभ्योऽधिकवेगं च, यत्तद् ग्राह्यं हयद्वयम् । यथाऽऽदिष्टविधानेन, मध्ये तस्याश्वसंहतेः ॥४। परीक्ष्याश्वद्वयं तेन भृतिकाले हयप्रभुः । अमुकं चाऽमुकं देहि, ममाश्वमिति याचितः । ५ ।
१. 'पुरं प्रति ल प ख
***********
************
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः वैनयिकी ।
गाथा - ९४५
५७५
[७१]