________________
EXXXXX
आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः
क्षिप्तं शुद्धपणाभिख्यं, तत्राल्पमूल्यनाणकम् । स्वाम्यायातो निरीक्ष्याऽऽख्यदेतन मम नाणकम् ।२। परावर्त्तस्त्वया चक्रे, वादे कारणिका जगुः । कस्मिन् वर्षे त्वया मुक्तमुक्तेऽब्देऽभर्छि[सिं तैर्वणिक् ।३। तदाऽऽसन्नपणास्तत्ते, कथं मुक्ता गृहेऽमुना । तदीयं नाणकं तस्याऽदाप्यथो दण्डितश्च सः ।४। कारणिकानामौत्पत्तिकीबुद्धिः ।। भिक्षोर्मठे कृतो न्यासः, केनापि न ददाति सः । द्यूतकारान् सिषेवेऽथ, पृष्टस्ते: कारणं जगो ।१। कितवा भिक्षवेषास्ते, भिक्षोस्तस्यान्तिकं गताः । तीर्थयात्रां वयं यामः, स्वर्णमेतदिहाऽस्तु नः ।२। अत्रान्तरे स पूर्वोक्तस्तमेत्याऽमार्गयन्त्रिजम् । तत् स्वर्णलोभादस्याऽदात्तेऽथ तं भिक्षचिरे ।३।। सन्त्यस्माभिः सहाऽऽयाता, बहवो भिक्षवस्ततः । सर्वे मिलित्वा युष्माकं, मोक्ष्यामो निखिलं मठे ।४। इत्युक्त्वा ते ययु तकृतामौत्पत्तिकीमतिः । चेटकनिधाने - नगरे क्वापि मित्रे द्वे, दृष्टस्ताभ्यां निधिः क्वचित् । एकेनोक्तं सुनक्षत्रे, निधि: कल्ये ग्रहीष्यते ।। रात्री तेन गृहीत्वा तं, तत्राङ्गारा निवेशिताः । तत्राऽऽलोक्य प्रगेऽङ्गारांस्तद्ग्रहीतेवमूचिवान् ।२। अहो वयमपुण्या यन्निधिरङ्गारतामगात् । ज्ञातमन्येन निःशेषमिदमस्य विजृम्भितम् ।३।
आ.नि. नमस्कारनियुक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः
बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२
५७०
५७० [६६]