SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्ययुक्तिः ५६४ ****** कृशोऽभूद्वैद्यमप्राक्षीत् स शतार्थी शतं ददौ । दत्वोषधानि वैद्योऽथ, विरेकं तमकारयत् ।३। तदन्तः सरटं लाक्षालितं चिक्षेप लाघवात् । तं दृष्ट्वाऽभूत्पटुः श्रेष्ठी, वैद्यस्योत्पत्तिकीमतिः ॥४। काके बौद्धः क्षुल्लकमप्राक्षीदर्हन्तः सर्ववेदिनः । बाढं तद्रूहि कत्यत्र, काकाः षष्टिसहस्रिका ॥१॥ बेणात वसन्त्यत्र यद्यूनाः प्रोषितास्ततः । अथाधिकाः प्राघुणकाः, क्षुल्लस्योत्पत्तिकीमतिः ॥ २ ॥ कोऽपि श्रेष्ठी निधिं दृष्ट्वा भार्यामूचे परीक्षितुम् । प्रियेऽद्य पाण्डुरः काको, ममाऽपानं प्रविष्टवान् ॥१। तया सखीनां कथितं पारम्पर्येण तं नृपः । श्रुत्वा श्रेष्ठिनमप्राक्षीत् स स्वभावं न्यवेदयत् । २ । राजाऽदात्तं निधिं तस्य, तथाऽमात्यं व्यधाञ्च तम् । इयमौत्पत्तिकी तस्य, बुद्धिर्वृद्धिकृतेऽभवत् ॥३॥ विकिरन्तं द्विकं विष्टां क्षुल्लः प्रेक्षत शैशवात् । तं च भागवतोऽप्राक्षीत्काकः किं विकिरत्यसौ ॥१॥ क्षुल्लकस्तं परिज्ञायोपहासिनमवोचत । जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके |२| ज्वालमालाकुले विष्णुः, सर्वं विष्णुमयं जगत् । श्रुत्वा स्मृतिमिमां काको, विष्णुमन्त्राऽपि वीक्षते ॥ ३ ॥ १. राज्ञादत्त' ल • क्षुल्लः जैनसाधुः । * भागवतः विष्णुभक्तः । **** ********* आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्ध औत्पत्तिकी । गाथा - ९४२ ५६४ [६० ]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy