________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्ययुक्तिः
५६४
******
कृशोऽभूद्वैद्यमप्राक्षीत् स शतार्थी शतं ददौ । दत्वोषधानि वैद्योऽथ, विरेकं तमकारयत् ।३। तदन्तः सरटं लाक्षालितं चिक्षेप लाघवात् । तं दृष्ट्वाऽभूत्पटुः श्रेष्ठी, वैद्यस्योत्पत्तिकीमतिः ॥४। काके बौद्धः क्षुल्लकमप्राक्षीदर्हन्तः सर्ववेदिनः । बाढं तद्रूहि कत्यत्र, काकाः षष्टिसहस्रिका ॥१॥ बेणात वसन्त्यत्र यद्यूनाः प्रोषितास्ततः । अथाधिकाः प्राघुणकाः, क्षुल्लस्योत्पत्तिकीमतिः ॥ २ ॥ कोऽपि श्रेष्ठी निधिं दृष्ट्वा भार्यामूचे परीक्षितुम् । प्रियेऽद्य पाण्डुरः काको, ममाऽपानं प्रविष्टवान् ॥१। तया सखीनां कथितं पारम्पर्येण तं नृपः । श्रुत्वा श्रेष्ठिनमप्राक्षीत् स स्वभावं न्यवेदयत् । २ । राजाऽदात्तं निधिं तस्य, तथाऽमात्यं व्यधाञ्च तम् । इयमौत्पत्तिकी तस्य, बुद्धिर्वृद्धिकृतेऽभवत् ॥३॥ विकिरन्तं द्विकं विष्टां क्षुल्लः प्रेक्षत शैशवात् । तं च भागवतोऽप्राक्षीत्काकः किं विकिरत्यसौ ॥१॥ क्षुल्लकस्तं परिज्ञायोपहासिनमवोचत । जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके |२| ज्वालमालाकुले विष्णुः, सर्वं विष्णुमयं जगत् । श्रुत्वा स्मृतिमिमां काको, विष्णुमन्त्राऽपि वीक्षते ॥ ३ ॥
१. राज्ञादत्त' ल • क्षुल्लः जैनसाधुः । * भागवतः विष्णुभक्तः ।
****
*********
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्ध औत्पत्तिकी ।
गाथा - ९४२
५६४
[६० ]