________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्ययुतिः
५६१
*****
पणबन्धे कथा
अस्ति रत्नपुरं नाम पुरं स्त्रीपुंसरत्नभृत् । गुणानामाकर इव, भूभृन्नाम्ना गुणाकरः ११ । आदाय शकटीं कोऽपि, वालुङ्काफलपूरिताम् । ग्रामेयकनरस्तत्र, हट्टवीथ्यामधारयत् ।२। तमूचे नागरो धूर्त्तो, वालुङ्कान्यखिलान्यपि । यः खादति तवैतानि, तस्य त्वं किं ददासि भोः ! | ३ | नकोऽप्यलमियन्त्यत्तुमित्यूचे सोऽथवाऽत्ति यः । यः प्रतोल्यां न निर्याति, ददे तं तस्य मोदकम् ॥४॥ ईदृक् पणेऽखिलानीषत्खादं खादं मुमोच सः । खादितानीति तान्यस्य, न कोऽपि ग्राहकोऽग्रहीत् ॥५॥ ययाचे मोदकं धूर्त्तः, सोऽदाद्दम्मं स नाऽऽददे । द्विशतीं यावदूचे सोऽतुष्यद् धूर्त्तस्तथापि न |६| तेनाऽथ सेवितो द्यूतकारो बुद्धिं ददौ ततः । स मोदकं विमुच्याऽथ, प्रतोल्यामिन्द्रकीलके ॥७॥ याहि मोदक ! याहीति, न यात्युक्तोऽथ तं जगी । गृहाण मोदकं धूर्त्त !, प्रतोल्यां नैष याति यत् ॥८॥ बुद्धिरोत्पत्तिकी द्यूतकारस्येयमजायत । धूर्त्तराजः पराजिग्ये, ग्राम्येणाप्यनया ततः १९ ।
रुक्खे - दत्तैर्वृक्षफलैरन्यैर्ददत्याम्राणि मर्कटाः । हत्वा पाषाणगोलैस्तान्यगृह्णन् केऽपि बुद्धितः ॥१ ॥
-
********
आ.नि.
नमस्कार
निर्युक्तिः । वस्तुद्वारे
सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी ।
गाथा- ९४२
५६१
[ ५७ ]