SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आवश्यक- चालनीच्छादितशिरा, इडिक्केऽथाधिरूढवान् । ययौ सायममावस्यां, भारतिर्भूभुजोऽन्तिके ।३४। नियुक्तिः राज्ञा सम्मानितो गाढं, शायितः स्वस्य सन्निधौ । यामान्ते क्ष्माभृताऽप्रच्छि, शेषे जागर्षि वा वद ।३५ । श्रीतिलकाचार्य-* सोऽवददेव ! जागर्मि, चिन्तयन्त्रसम्यदः पुनः । श्रीवृक्षवृक्षपत्राणां, किं वृन्तं किं शिखाधिका ।३६। लघुवृत्तिः राज्ञाऽचिन्ति न विज्ञातं, स पृष्टो द्वे समे जगी । यामे द्वितीये पृष्टोऽवक्, कोऽजाविड्गुटिका व्यधात् ॥३७॥ भूपेनोक्ते न जाने स, स्माह संवर्त्तमारुतः । यामे तृतीये पृष्टोऽवग्, लेखाः खल्वाटिकातनी ।३८ । कति श्यामाः कति श्वेता, राजा ध्यात्वाह भो ! वद । श्यामा: श्वेताः समाः, सोऽवग् देहपुच्छे तथा समे ।३९। कम्बाऽग्रेण महाराजस्तुर्ये यामे तमस्पृशत् । ऊचे च शेषे जागर्षि, स ऊचेऽस्मीति चिन्तयन् ।४०। ५६० कति ते पितरोऽभूवन्, राजा सेर्व्यः सविस्मयः । के ते स स्माह राजेकः, पृथ्व्या न्यायेन शासनात् ।४१। द्वितीयो धनदो दानात्, तृतीयः श्वपचो रुषा । मन्तो निश्चयोत्य सर्वस्वाऽऽदानात्ते रजकः पिता ।४२। व्यथनात्कम्बिकाऽग्रेण, वृश्चिकः पञ्चमः पुनः । तदेतन्मातरं पृष्ट्वा, संतुष्टो भारतेन॒पः ।४३। पञ्चशत्या अमात्यानामसौ मुख्यस्ततः कृतः । इयमौत्पत्तिकी बुद्धिरद्धता भारतेरभूत् ।४४। १. 'इडिके' ल छ प, 'इडक्के' प । २. 'निश्चोत्य' ल, ख छ पप . इडिकः - आरण्योऽजः । * 'शीडक् स्वप्ने" धातोः व. का. द्वि.पु. एकवचनरूपः । *.'श्रीवृक्षवृक्षःअश्वत्थवृक्षः । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः बुद्धिसिद्धः औत्पत्तिकी। गाथा-९४२ ५६० [५६]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy