________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य- * लघुवृत्तिः
५५५
सोऽवग्नापूर्ययं यावत्तावद् देव ! न मे सुखम् । तदर्थं दिक्षु भाण्डानि, प्रेष्यन्त प्रकृता कृषिः | १२ | प्रारभ्यते वृषाश्वेभदास्यादेः पोषणं मया । राज्ञाऽभण्यत तर्ह्येवं क्लिश्यसेऽल्पकृते कथम् ।१३। सोऽवक् क्लेशसहं मेऽङ्ग, व्यापारोऽन्योऽस्ति नाधुना । वर्षास्वेधो महार्घत्वं, तदर्थेऽहं करोम्यदः ॥ १४ ॥ नृपोऽवादीन्महाभाग !, पूर्यतां ते मनोरथाः । त्वमेवास्य समर्थोऽसि, पूरणार्थमहं न तु ॥१५ ॥ कृतमाङ्गलिकस्तेन, स्वसौधेऽथागमन्नृपः । कालेनाऽपूरि तेनाऽसावर्थसिद्धोऽयमीदृशः । १६ । यात्रासिद्धमाह -
जो निच्चसिद्धजत्तो, लद्धवरो जो य तुंडियाइव्व । सो किर जत्तासिद्धो ऽभिप्पाओ बुद्धिपज्जाओ ।।९३६ ।। यो द्वादशवाराः समुद्रमवगाह्य कृतकार्यः क्षेमेणाऽऽयाति स नित्ययात्रासिद्धः । अन्येऽपि पोतेन गन्तुकामा यात्रासिद्ध्यर्थं तं प्रेक्षन्ते चतुर्थपादे चास्या उत्तरद्वारावयवः । अभिप्रायो बुद्धिपर्यायः । ततश्चाभिप्रायसिद्धो बुद्धिसिद्ध: ।।९३६ ।। यात्रासिद्धे कथा चेयं - वेलाकूलेऽभवत्क्वापि, वणिक् तुण्डिकनामकः । तस्याब्धौ लक्षशो भग्नं, बोहित्थं स तु नाऽभनक् ॥१ ॥ जले नष्टं जले एव, लभ्यते प्रोक्तवानिति । नाऽग्रहीद्दत्तमप्यन्यैर्जगाम पुनरम्बुधौ ॥२॥
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे
सिद्धनमस्कारः
अर्थसिद्ध
मम्मणः ।
यात्रासिद्धवणिक् ।
गाथा - ९३६
५५५
[५१]