SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आसतामपरे धर्मा, जिनधर्मोऽपि हील्यते । तदार्यसमिताचार्यास्तत्रयुर्वज्रमातुलाः ।४। श्राद्धः सुधीर्गुरोराख्यद्धौतोदन्तं गुरुस्ततः । भ्रमितानां प्रबोधाय, शिक्षा तस्य ददो रहः ।५। सोऽथ गत्वा प्रभाते तान्, भौतान् सर्वात्र्यमन्त्रयत् । हृष्टास्तेऽस्मञ्चरित्रेण, क्षुभिताः श्रावका अपि ।६। अथाऽऽनीय गृहे सर्वान्, पादशौचकृतोद्यमः । स तेनिषिध्यमानोऽपि, भक्तव्येवाऽक्षालयत् क्रमान् ।७। धौताश्च पादुकास्तेषां, यथेष्टं भोजितास्ततः । अथाऽनुव्रजनं श्राद्धाः, श्रद्धालव इव व्यधुः ।८। नद्यां प्राग्वत्प्रविष्टास्ते, बुडन्तस्तारकैघृताः । तदेत्युचैर्जना ऊचुर्मुष्टाः स्म छद्मतापसः ।। तत्राचार्यास्तदायाता, योगं क्षिप्त्वा नदीं जगुः । एहि पुत्रि ! यथा यामो, वयं परतटं तव ।१०। मिलितो द्वावपि तटो, सर्वेषामपि पश्यताम् । गुरवः परतो जग्मुर्लोकः सर्वोऽपि विस्मितः ।११। तापसाः प्रतिबुद्धास्ते, तेषां पार्श्वे प्रवव्रजुः । ते ब्रह्मद्वीपवासित्वात्, तदाहाः साधवोऽभवन् ।१२। ईदृग्योगसिद्धः । आगमार्थसिद्धावाह - आगमसिद्धो सव्वं-गपारओ गोयमुव्व गुणरासी । पउरत्थो अत्थपरो व, मम्मणो अत्थसिद्धो य ।।९३५।। स्पष्टा । गौतमकथा प्रागुक्ता ।।९३५।। मम्मणकथा चेयं - १. 'त्रुडन्तस्ता' - प. प. 'बुडतस्ता' 'ख, 'बुडन्तस्ता' छल। आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः योगसिद्धसमिताचार्यः। गाथा-९३५ ५५३ ५५३ [४९] ****881
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy