________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
दृष्टा तेनाऽन्यदा साध्वी, रूपातिशयशालिनी । नाऽऽगच्छन्त्यत्र रम्भाद्या, यल्लावण्यजिता इव ।२। तद्रूपदर्शनाऽऽक्षिप्तश्चिक्षेपान्तःपुरे स ताम् । तदेव मिलितः सङ्घः, शासितुं तं महीपतिम् ।३। राज्ञः सौधाङ्गणे तस्य, महास्तम्भशतोद्धतः । सुधर्मायाः प्रतिच्छन्दो, मण्डप: सौधमण्डनम् ।४। साधुश्चैको मन्त्रसिद्धः, सङ्गमध्येऽस्ति शक्तिमान् । आचकर्ष स तान् स्तम्भान्, मन्त्रशक्तया समण्डपान् ।५। उत्पेतयोनि सर्वे, ते स्तम्भाः सोधगतास्ततः । गन्तुकामा इव तदा, जायन्ते स्म चलाचलाः ।६। कान्दिशीकस्तदा राजा, समागत्य कृताञ्जलिः । साध्वीं तामर्पयामास, सङ्घ चाऽक्षमयन्मुहुः ।७। ईदृशो मन्त्रसिद्धः । अथ योगसिद्धमाह -
सव्वेवि दव्वजोगा, परमच्छेग्यफलाऽहवेगोऽवि । जस्सेह हुज्ज सिद्धो, स जोगसिद्धो जहा समिओ ।।९३४।। स्पष्टा । नवरं 'अहवेगोवि' अथवैकोपि योगः ।।९३४ ।। कथा चेयं - पृथ्वीप्रतिष्ठं नगरं, सुप्रतिष्ठः क्षितीश्वरः । कृष्णा वेणा च वाहिन्यो, तिष्ठतस्तत्पुरान्तिके ।। ब्रह्मद्वीपस्तयोरन्तस्तत्रासन केऽपि तापसाः । भुवीव पादलेपेन, ते जलोपरि चारिणः ।२। ऊचुः पृष्टास्तपःशक्तिरस्माकमियमीदृशी । तेष्वाहतस्ततो लोकः, क्षुभिताः श्रावका अपि ।३।
आ.नि. नमस्कारनियुक्तिः ।
बस्तुद्वारे प्ररूपणाद्वारे सिद्धनमस्कारः
योगसिद्धसमिताचार्यः। गाथा-९३४
५५२
ESSENSE
५५२
[४८]
RRRRRRRRRA