SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्य-* लघुवृत्तिः पुरस्थं मात्रकं श्वेतवस्त्रेण पिहिताननम् । तस्याप्यग्रे टोप्परिकामेकामय्याऽऽसनस्थिताम् ।१९। तन्मुखोऽभूजनो भूयान्, सङ्घोऽथाऽज्ञापयद् गुरून् । गुडशस्त्रादथाऽऽयासीद्गुरुरज्ञातचर्यया ।२०। तत्पात्राणामथाऽऽयातां, भूतानामन्तरा शिला । विचक्रे गुरुभिस्तस्यां, सर्वाण्यास्फाल्य पुस्फुटुः ।२१। भीतश्च क्षुल्लकोऽनश्यज्ज्ञात्वाऽऽयातान् गुरूंस्ततः । बुद्धायतनमाऽऽगत्य, गुरवो बुद्धमूचिरे ।२२। एहि शौद्धोदने ! वत्स !, वन्दस्वाऽस्मानिहागतान् । आगत्य बुद्धप्रतिमा, पतिता गुरुपादयोः ।२३। प्रेषितोऽगान्निजस्थानमुक्तस्तूभोऽप्यवन्दत । ऊचे च तिष्ठेः स्वस्थाने, किञ्चिन्नम्रस्तथास्थितः ।२४ । निर्ग्रन्थनामित इति, तस्य ख्यातिरभूदतः । एवंविधः सिद्धवाक्यो, विद्यासिद्धोऽभिधीयते ।२५।। मन्त्रसिद्धमाह - साहीणसव्वमंतो, बहुमंतो वा पहाणमंतो वा । नेओ समंतसिद्धो, थंभागरिसोव्व साइसओ ।।९३३।। स्पष्टा ।।९३३।। कथा चेयं - लक्ष्मीपुरं पुरं तस्मिन्, श्रीविलासो नराधिपः । शब्दादिविषयासक्तः, सततं विललास यः ।। १. 'मुक्तास्तूपो' - प. 'मुक्तस्तूपो ल, 'मुक्त्वा स्तूपो प। प्रेषितो 'बुद्धः' इति शेषः । * स्तूभः स्तम्भार्थोऽयं शब्दो भाति । 33%83%88% आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे प्ररूपणाद्वारे * सिद्धनमस्कारः मन्त्रसिद्धसाधुकथा । गाथा-९३३ ५५१ ५५१ 華華準準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy