SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः |華華華藥業講講講準準準準。 तार्तीयीको रचयति, शय्यां तादृग्विधां यथा । जागर्ति प्रथमे यामेऽथवा द्वित्रिचतुर्थके ।८। श्रीगृहाधिकृतस्तुर्यस्तस्यैतन्मतिवेभवम् । प्रविष्टो ह्यपरस्तत्र, न किञ्चिदपि पश्यति ।। स च क्ष्माभृदपुत्रत्वाद्राजकार्येषु शीतलः । निर्वित्राण्ण]कामभोगोऽस्ति, यावद्वतकृतोद्यमः ।१०। इतश्च पाटलीपुत्राजितशत्रुः क्षितीश्वरः । लङ्कापुरी राम इव, रुरोधाऽऽगत्य तत्पुरीम् ।११। तदाऽवन्तीपतेः शूलमुत्पन्नं देवयोगतः । विधायाऽनशनं सोऽथ, जगाम त्रिदशालयम् ।१२। नागरैरथ तस्येव, पाटलीपुत्रभूभुजः । अर्पिता नगरी तेन, श्रावकास्तेऽथ शब्दिताः ।१३। चत्वारोऽप्यागताः पृष्टाः, पदेऽभूद् वोऽत्र कुत्र कः । कोशं कोशाधिकृत्तत्राऽदर्शयद्रिक्तमैक्षत ।१४ । शय्यापालस्तु शय्यां च, सजयामास तादृशीम् । मुहूर्ते च मुहूर्ते च, यस्या उत्थीयते जवात् ।१५। सूदेनाऽत्रं तथा राद्धं, येन भुते क्षणे क्षणे । अभ्यक्तोऽन्येन चैकस्मात्तैलमाकर्षि पादतः ।१६। ऊचे यस्तेऽस्ति मत्तुल्यः, सोऽन्यतस्तेलमाकृषेत् । प्राव्रजन्नथ सर्वेऽपि, निजस्वामिवियोगतः ।१७। तेन तैलेन तस्यांऽहिदह्यमानः क्रमादभूत् । काकश्यामस्ततः सोऽत्र, काकजङ्ग इति श्रुतः ।१८। .अवन्ती - उज्जयिन्या अपरनाम । * अन्यपादतस्तु नाकर्षि इत्यर्थः । आ.नि. नमस्कारनियुक्तिः । वस्तुद्वारे सिद्धनमस्कारः शिल्पसिद्धकोकासकथा । गाथा-९३० ५४६ ** ५४६ %%%% [४२]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy