SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्ययुतिः ५४५ ******* ************** उद्यन्तेऽन्यैर्भारा विश्राम्यद्भिः परं समस्तास्ते । शीलभरं तु मुनीन्द्रा, यावज्जीवं वहन्त्यविश्रामाः | १० | प्रत्यबोधि नृपस्तत्र, संवेगावेगमागतः । धर्मं प्रपन्नवान् जैनं, कर्मसिद्धस्य पार्श्वतः | ११ | अथ शिल्पसिद्धं सदृष्टान्तमाह - जो सच्चसिष्पकुसलो, जो व जहिं सुपरिनिडिओ होड़ । कोकासवट्टई विव, साइसओ सिप्पसिद्धो व ।।९३० ।। स्पष्टा ।।९३० ।। कथा चेयं पुरं सोपारकं तत्र, रथकारोऽभवत्सुधीः । तद्दास्याश्च द्विजाज्जातः, कोकासो नाम दारकः ॥ १ । चाssसीन्मूकभावेन, समीपेऽप्यश्रवा इति । रथकारः सुशिल्पानि, शिक्षयत्यङ्गजान्निजान् ।२ । न तेऽगृह्णन् किमप्यज्ञा, दासेरः सर्वमग्रहीत् । रथकारे मृते राजा, दासेरे तच्छ्रियं न्यधात् ।३। इतोज्जयनीपुर्य्यामार्हतः श्रावको नृपः । चत्वारः श्रावकास्तस्य, सन्ति कर्मसु कर्मठाः ॥४। करोत्येको रसवतीं, तादृक्पाकवतीं यथा । जीर्यत्यन्नं भुक्तमात्रमथवा याममात्रतः । ५ । यद्वा द्वित्रिचतुःप[प]चयामेभ्यो जीर्यति क्रमात् । तथा वा कुरुते येन, सर्वथाऽपि न जीर्यति | ६ | अभ्यनक्ति द्वितीयस्तु स तैलकुडवं प्रधीः । प्रवेशयति देहान्तस्तावत्रिःसारयत्यपि ॥७॥ ******************************* आ.नि. नमस्कार निर्युक्तिः । वस्तुद्वारे सिद्धनमस्कारः शिल्पसिद्धः । कोकासकथा । गाथा - ९३० ५४५ [४१]
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy