________________
आवश्यक
निर्युक्ति: श्रीतिलकाचार्य
लघुवृत्तिः
५४४
渐渐渐
जा सव्वकम्मकुसलो, जो व जहिं सुपरिनिट्ठिओ होइ । सज्झगिरिसिद्ध ओविव, स कम्मसिद्धत्ति वित्रेओ ।। ९२९ । । स्पष्टा ।।९२९ ।। कथोच्यते -
अस्ति कुङ्कणदेशेऽत्र, सह्यनामा महागिरिः । विद्यते दुर्गमेकं च तस्योपर्यतिदुर्गमम् ॥१॥
गोधूमडतैलाज्यादीनि पण्यानि सर्वदा । तद्वासिनस्तत उत्तारयन्त्यारोहयन्ति च ॥ २ ॥ एतेऽतिविषमे मार्गे, यन्महाभारवाहिनः । इति तानूचिवान् राजा, देयः पन्था मयाऽपि वः | ३ || युष्माभिर्नैव दातव्यः, कस्याप्यागच्छतः पुनः । तेष्वेकोऽभून्महाभारवाही सर्वपुरःसरः ।४ । दत्तस्तेनाऽन्यदा मार्गो, रिक्तस्याऽऽगच्छतो मुनेः । सर्वे तदुपरि क्रुद्धा, राज्ञे व्यज्ञपयन्निदम् ॥५॥ राज्ञोचे न कृतं सुष्ठु ममाऽऽज्ञा लङ्घिता त्वया । स ऊचे नः प्रसादोऽयं, भारिकत्वात्कृतः प्रभो ! ॥६। आमेत्युक्ते नृपेणाऽऽह, स यस्याऽदामहं पथम् । स्वामिन् ! साधुरविश्रान्तं वहते स महाभरम् ॥७॥ महाव्रतानि पञ्चापि, मेरुकल्पानि सर्वदा । वहते स न शक्यन्ते, वोढुं यानि मयाऽपि हि ॥८ ॥ उपराजं कृता तेन तदानीं साधुवर्णना । किं बहूक्तेन राजेन्द्र !, भवेत्कः साधुभिः समः । ९ । १. 'न' ल, । २ 'प्रमादो' ल, । ३. 'प्रभोः' ल, ल प छ ।
******
आ.नि.
नमस्कार
निर्युक्तिः ।
वस्तुद्वारे सिद्धनमस्कारः कर्मसिद्धः ।
।
साधुकथा
गाथा - ९२९
५४४
[४०]