SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः पालिता यौवनं प्राप्तास्तत्रेवाऽगुः पणायितुम् । तासां भाटिं ददुस्तेऽथ, स्वसम्पत्त्या विभूषिताः ।३। रात्री तन्मन्दिरे जग्मुर्दा रेमाते स्वमातरम् । एकः सुश्रावको रन्तुं, नैच्छत्पप्रच्छ किन्तु ताम् ।४। कुतः कथमिहायाताः, सा स्वरूपं न्यरूपयत् । सोऽवदत्ते वयं युष्मत्पुत्राः शिष्टं तदन्ययोः ।५। सर्वे वैराग्यमापन्नास्सदम्बाश्च प्रवव्रजुः । श्रेष्ठी हेमपुरे श्रीदः, प्रियामुन्मुच्य गुर्बिणीम् । दिग्यात्रायां ययौ पश्चाजायते स्म सुताद्धता ।१।। स च व्यवहरेद्यावत्तावत्पुत्र्याप यौवनम् । दत्ताऽन्यनगरे साऽस्ति, तत्रैवागाद्वलत्पिता ।२। विनशेन्मा क्रयाणानीत्यस्थाद्वर्षाः स तत्र च । सार्द्ध सङ्घटितः पुत्र्या, न भवेत्किमजानताम् ।। वर्षाराने व्यतीते च, श्रीदः स्वं नगरं ययौ । आनायिता सुता मात्रा पितरं वीक्ष्य लजिता ।४।। आत्मघातं व्यधात्पुत्री, पिता च व्रतमग्रहीत् । वेश्या कूबेरसेनाऽभून्मथुरायां तयाऽजनि । अपत्ययुग्मं तत्स्वस्य, यौवनापहमित्यतः ।। कुबेरदत्तकुबेरदत्तानामाङ्कमुद्रया । विभूष्य न्यस्य पेटायां, यमुनायां प्रवाहितम् ।२। १. 'इति नामा' ल,। आ.नि. प्रत्याख्याना ध्ययनम् * भावप्रत्याख्यानम् अणुव्रतानि * परदारगमनदोषे *श्रीदश्रेष्ठीकथा। गाथा-१५६१ १०६७ EXX*** १०६७ [५६३] ******* 举華華華藥業業 *
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy